SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३२६।। मुषाभाषायाः। सत्यामृषाभाषायाः दशप्रकाराः। नि०- जणवयसम्मयठवणा नामे रूवे पडुच्च सच्चे आववहारभावजोगे दसमे ओवम्मसच्चे अ ।। २७३ ।। सप्तममध्ययनं सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्यादिभेदात्, तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्यविप्रतिपत्त्या यदेकार्थ- वाक्यशुद्धिः, नियुक्ति: २७३ प्रत्यायनव्यवहारसमर्थमिति,यथोदकार्थे कोङ्कणकादिषु पयः पिच्चमुदकं नीरमित्याद्यदुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाव्यवहारप्रवृत्तेः सत्यमेतदिति, एवं शेषेष्वपि भावना कार्या। संमतसत्यं नाम- कुमुदकुवलयोत्पलतामरसानां नियुक्ति:२७४ समाने पङ्कसंभवे गोपादीनामपि संमतमरविन्दमेव पङ्कजमिति । स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयं । कार्षाषणोऽयंशतमिदं सहस्रमिदमिति । नामसत्यं नाम कुलमवर्धयन्नपि कुलवर्द्धन इत्युच्यते धनमवर्धयन्नपि धनवर्द्धन इत्युच्यते ।। अयक्षश्च यक्ष इति । रूपसत्यं नाम अतद्वणस्य तथारूपधारणं रूपसत्यम्, यथा प्रपश्चयतेः प्रव्रजितरूपधारणमिति । प्रतीत्यसत्य नाम यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि- अस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंनिधानेन तत्तद्रूपमभिव्यज्यत इति सत्यता । व्यवहारसत्यं नाम दह्यते गिरिगलति भाजनमनुदरा कन्या अलोमा एडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा संभोगजबीजप्रभवोदराभावे च सति तथा लवनयोग्यलोमाभावे सति । भावसत्यं नाम शक्ला बलाका, सत्यपि पञ्चवर्णसंभवेशुक्लवर्णोत्कटत्वाच्छक्लेति । योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगादण्डीत्येवमादि। दशममौपम्यसत्यं च, तत्रौपम्यसत्यं नाम समुद्रवत्तडाग इति गाथार्थः ।। २७३ ।। उक्ता सत्या, अधुना मृषामाह नि०- कोहे माणे माया लोभे पेजे तहेव दोसे अ । हासभए अक्खाइय उवघाए निस्सिआ दसमा ।। २७४।। क्रोध इति क्रोधनिसृता यथा क्रोधाभिभूतः पिता पुत्रमाह-नत्वं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयविपत्तितः सर्वमेवासत्यमिति, एवं माननिसृता मानाध्मातः क्वचित्केनचिदल्पधनोऽपि पृष्ट आह-महाधनोऽहमिति, मायानिसृता मायाकार ॥३२६॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy