________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||३२५॥
नि०-दव्वे तिविहा गहणे अनिसिरणे तह भवे पराघाए। भावे दव्वे असुए चरित्तमाराहणी चेव ।। २७१ ।।
सप्तममध्ययनं द्रव्य इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा- ग्रहणे च निसर्गे तथा भवेत्पराघाते । तत्र ग्रहणं भाषाद्रव्याणां काययोगेन यत् सा
वाक्यशुद्धिः,
नियुक्ति: २७१ ग्रहणद्रव्यभाषा, निसर्गस्तेषामेव भाषाद्रव्याणां वाग्योगेनोत्सर्गक्रिया, पराघातस्तु निसृष्टभाषाद्रव्यैस्तदन्येषां तथापरिणामा
द्रव्यभावपादनक्रियावत्प्रेरणम्, एषा त्रिप्रकाराऽपि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति । भाव इति द्वारपरामर्शः,
भाषा।
नियुक्ति: २७२ भावभाषा त्रिविधैव, द्रव्ये च श्रुते चारित्र इति, द्रव्यभावभाषा श्रुतभावभाषा चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्तैर्या ।
सत्या भाषा। भाष्यते सा द्रव्यभावभाषा, एवं श्रुतादिष्वपि वाच्यम्, इयं त्रिप्रकारापि वक्त्रभिप्रायात्त व्यभावप्राधान्यापेक्षया भावभाषा, इयं चौघत एवाराधनी चैवेति, द्रव्याधाराधनात्, चशब्दाद्विराधना चोभयं चानुभयं च भवति, द्रव्याद्याराधनादिभ्य इति । आह- इह द्रव्यभाववाक्यस्वरूपमभिधातव्यम्, तस्य प्रस्तुतत्वात्, तत्किमनया भाषयेति, उच्यते, वाक्यपर्यायत्वाद्धाषाया न दोषः, तत्त्वतस्तस्यैवाभिधानादिति गाथासमुदायार्थः, अवयवार्थं तु वक्ष्यति ।। २७१।। तत्र द्रव्यभावभाषामधिकृत्याराधन्यादिभेदयोजनामाह
नि०- आराहणी उदव्वे सच्चा मोसा विराहणी होइ। सच्चामोसा मीसा असञ्चमोसा य पडिसेहा ।। २७२ ।। आराध्यते-परलोकापीडया यथावदभिधीयते वस्त्वनयेत्याराधनी तु द्रव्य इति द्रव्यविषया भावभाषा सत्या, तुशब्दात् ।। द्रव्यतो विराधन्यपि काचित्सत्या, परपीडासंरक्षणफलभावाराधनादिति, मृषा विराधनी भवति, तव्यान्यथाभिधानेन । तद्विराधनादिति भावः, सत्यामृषा मिश्रा, मिश्रेत्याराधनी विराधनी च, असत्यामृषा च प्रतिषेध इति नाराधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति, आसां च स्वरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथार्थः ।। २७२ ॥ तत्र सत्यामाह
For Private and Personal Use Only