________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। ३२४ ।।
www.kobatirth.org
॥ अथ सप्तममध्ययनं वाक्यशुद्ध्याख्यम् ॥
साम्प्रतं वाक्यशुद्ध्याख्यमध्ययनं प्रारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य (आचार) इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तम्, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्येतदुच्यते, उक्तं च- सा वज्रणवज्जाणं वयणाणं जो न याणइ विसेसं । वोतुंपि तस्स ण खमं किमंग पुण देसणं काउं? ॥ १ ॥ इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र वाक्यशुद्धिरिति द्विपदं नाम, तत्र वाक्यनिक्षेपाभिधानायाह
नि०- निक्खेवो अ (उ) चउक्को वक्के दव्वं तु भासदव्वाई। भावे भासासहो तस्स य एगट्ठिआ इणमो ।। २६९ ।। निक्षेपस्तु चतुष्को नामस्थापनाद्रव्यभावलक्षणो वाक्ये वाक्यविषयः, तत्र नामस्थापने क्षुण्णे, द्रव्यं तु द्रव्यवाक्यं पुनर्जशरीरभव्यशरीरव्यतिरिक्तं भाषाद्रव्याणि भाषकेण गृहीतान्यनुच्चार्यमाणानि, भाव इति भाववाक्यं भाषाशब्दः भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः । तस्य तु वाक्यस्य एकार्थिकानि अमूनि वक्ष्यमाणलक्षणानीति गाथार्थः ।। २६९ ।।
नि०- वक्कं वयणं च गिरा सरस्सई भारही अ गो वाणी। भासा पन्नवणी देसणी अ वयजोग जोगे अ ।। २७० ।। वाक्यं वचनं च गीः सरस्वती भारती च गौर्वाक् भाषा प्रज्ञापनी देशनी च वाग्योगो योगश्च, एतानि निगदसिद्धान्येवेति गाथार्थ: ।। २७० ।। पूर्वोद्दिष्टां द्रव्यादिभाषामाह
© सावद्यानवद्ययोर्वचनयोर्यो न जानाति विशेषम् । वक्तुमपि न तस्य क्षमं किमङ्ग पुनर्देशनां कर्तुम् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
|सप्तममध्ययनं वाक्यशुद्धिः, निर्युक्तिः २६९ अभिसम्बन्धो
वाक्यनिक्षेपक्ष |
निर्युक्तिः २७०
द्रव्यभाव
भाषा।
।। ३२४ ।।