SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥३२३॥ षष्ठमध्ययन महाचारकथा, सूत्रम् ६७-६८ उपसंहारः। त्तिबेमि ॥ छटुं धम्मत्थकामायणं समत्तं ।।६।। उक्तः शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदम, तदभिधानाच्चोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाहखवंति'त्ति सूत्रम्, क्षपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवम्, किंविशिष्टा इत्याह- अमोहदर्शिनः । अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः, त एव विशेष्यन्ते- तपसि- अनशनादिलक्षणे रताः- सक्ताः, किंविशिष्टे । तपसीत्याह-संयमार्जवगुणे संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजुभावप्रधाने, शुद्ध इत्यर्थः, त एवंभूता धुन्वन्ति । कम्पयन्त्यपनयन्ति पापानि पुराकृतानि जन्मान्तरोपात्तानि नवानि प्रत्यग्राणि पापानि न ते साधवः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः ।। ६७।। किंच-'सदोवसंत'त्ति सूत्रम, सदोपशान्ताः सर्वकालमेव क्रोधरहिताः, सर्वत्राममा-ममत्वशून्या: अकिश्चना हिरण्यादिमिथ्यात्वादिद्रव्यभावकिञ्चनविनिर्मुक्ताः स्वा- आत्मीया विद्या स्वविद्या- परलोकोपकारिणी केवलश्रुतरूपा तया स्वविद्यया विद्ययानुगता- युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते- यशस्विनः शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ प्रसन्ने परिणते शरत्कालादौ विमल इव चन्द्रमाः चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः सिद्धिं निर्वृति तथा सावशेषकर्माणो विमानानि सौधर्मावतंसकादीनि उपयान्ति सामीप्येन गच्छन्ति त्रातारः ।। स्वपरापेक्षया साधवः, इति ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः,साम्प्रतं नयाः, ते च पूर्ववत् ।।६८॥ व्याख्यातं षष्ठमध्ययनम् ॥ ॥३२३|| ॥ सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तौ षष्ठमध्ययनं महाचारकथाख्यं समाप्तमिति ।। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy