SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyarmandir षष्ठमध्ययन श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥३२२॥ महाचारकथा, सूत्रम् ६७-६८ उपसंहारः। विभूसावत्तिअंभिक्खू, कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ।। सूत्रम् ६५ ।। विभूसावत्तिअंचेअं, बुद्धा मन्नति तारिसं । सावजबहुलं चेअं, नेयं ताईहिं सेविअं। सूत्रम् ६६ ।। उक्तोऽस्नानविधिः, तदभिधानात्सप्तदशस्थानम्, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यते-शोभायां नास्ति दोषः। अलङ्कृतश्चापि चरेद्धर्म मित्यादिवचनाद् (इति) पराभिप्रायमाशङ्कयाह-'नगिणस्स'त्ति सूत्रम्, नग्नस्य वापि कुचेलवतोऽप्यु- शोभा वर्जनम्। पचारनग्नस्य निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्य द्रव्यभावाभ्यां दीर्घरोमनखवतः दीर्घरोमवतः । कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनाद् उपशान्तस्य उपरतस्य, किं विभूषया राढया कार्य?, न किञ्चिदिति सूत्रार्थः ।। ६४ ।। इत्थं प्रयोजनाभावमभिधायापायमाह-'विभूस'त्ति सूत्रम्, विभूषाप्रत्ययं विभूषानिमित्तं भिक्षुः साधुः कर्म बध्नाति चिक्कणं दारुणम्, संसारसागरे घोरे । रौद्रे येन कर्मणा पतति दुरुत्तारे अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः ।। ६५ ।। एवं बाहाविभूषापायमभिधाय संकल्पविभूषापायमाह-'विभूस'त्ति सूत्रम्, विभूषाप्रत्ययं विभूषानिमित्तं चेत एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, बुद्धाः तीर्थकरा मन्यन्ते जानन्ति तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासदृशं सावद्यबहुलं चैतद् आर्तध्यानानुगतं । चेतः, नैतदित्थंभूतं त्रातृभिः आत्मारामैः साधुभिः सेवितं आचरितम्, कुशलचित्तत्त्वात्तेषामिति सूत्रार्थः ।। ६६ ।। खवंति अप्पाणममोहदंसिणो, तवेरया संजमअजवे गुणे । धुणंति पावाई पुरेकडाई, नवाई पावाईन ते करंति ।। सूत्रम् ६७॥ सओवसंता अममा अकिंचणा, सविजविज्ञाणुगया जसंसिणो। उउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उति ताइणो। सूत्रम् ६८॥ ||३२२॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy