________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailasagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् || ३३०॥
श्रुतभावभाषा । अत ऊर्दू वक्ष्ये चारित्र इति चारित्रविषयां भावभाषामिति गाथार्थः ।। २८१ ।।
समममध्ययन नि०-पढमबिइआ चरित्ते भासा दो चेव होंति नायव्वा । सचरित्तस्स उभासा सच्चा मोसा उइअरस्स ।। २८२ ॥
वाक्यशुद्धिः,
नियुक्तिः . प्रथमद्वितीये सत्यामृषे चारित्र इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये, स्वरूपमाह- सचरित्रस्य चारित्रपरिणामवतः,
२८२-२८५ तुशब्दात्तद्वृद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां हितत्वादिति । मृषा तु इतरस्य' अचारित्रस्य ।
निक्षेपाः। तद्बुद्धिनिबन्धनभूता चेति गाथार्थः ।। २८२ ।। उक्तं वाक्यमधुना शुद्धिमाह
नि०-णामंठवणासुद्धी दव्यसुद्धी अभावसुद्धी अ। एएसिं पत्तेअंपरूवणा होइ कायव्वा ।। २८३ ।।। नामशुद्धिः स्थापनाशुद्धिर्द्रव्यशुद्धिश्च भावशुद्धिश्च, एतेषां नामशुद्ध्यादीनां प्रत्येकं प्ररूपणा भवति कर्तव्येति गाथार्थः ।। २८३ ।। तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्यशुद्धिमाह
नि०-तिविहा उ दव्वसुद्धी तद्दव्वादेसओ पहाणे अ । तहव्वगमाएसो अणण्णमीसा हवइ सुद्धी ।। २८४ ।। त्रिविधा तु द्रव्यशुद्धिर्भवति तद्दव्यत इति तद्व्यशुद्धिः आदेशत इति आदेशद्रव्यशुद्धिः प्राधान्यतचे ति प्राधान्यद्रव्यशुद्धिश्च । तत्र तद्रव्यशुद्धिः अनन्ये त्यनन्यद्रव्यशुद्धिः, यमुव्यमन्येन द्रव्येण सहासंयुक्तं सच्छुद्धं भवति क्षीरं दधि वा असौ तव्यशुद्धिः, आदेशे मिश्रा भवति शुद्धिरन्यानन्यविषया, एतदुक्तं भवति-आदेशतो द्रव्यशुद्धिर्द्विविधा- अन्यत्वेनानन्यत्वेन च, अन्यत्वे यथा शुद्धवासा देवदत्तः, अनन्यत्वे शुद्धदन्त इति गाथार्थः ॥२८४ ।। प्राधान्यद्रव्यशुद्धिमाह
नि०-वण्णरसगंधफासे समणुण्णा सा पहाणओसुद्धी। तत्थ उसुकिल महरा उसंमया चेव उनोसा ।। २८५।। वर्णरसगन्धस्पर्शेषु या मनोज्ञता-सामान्येन कमनीयता अथवामनोज्ञता- यथाभिप्रायमनुकूलता साप्राधान्यतः शुद्धिरुच्यते,
|| ३३० ।।
For Private and Personal Use Only