SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदश वैकालिकं श्रीहारि० वृत्तियुतम् ।। ३२० ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोअरग्गपविट्ठस्स, निसिद्धा जस्स कप्पड़। इमेरिसमणायारं, आवज्रइ अबोहिअं ।। सूत्रम् ५६ ।। विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्धाओ, पडिकोहो अगारिणं । सूत्रम् ५७ ॥ अगुत्ती बंभचेरस्स, इत्थी ओ वावि संकणं। कुसीलवडणं ठाणं, दूरओ परिवञ्जए । सूत्रम् ५८ ।। तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पई। जराए अभिभूअस्स, वाहिअस्स तवस्सिणो । सूत्रम् ५९ ।। उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पञ्चदशस्थानम्, इदानीं षोडशस्थानमधिकृत्याह - 'गोअरग्ग'त्ति सूत्रम्, गोचराग्रप्रविष्टस्य भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं समाचरति यः साधुरिति भावः, स खलु एवं ईदृशं वक्ष्यमाणलक्षणमनाचारं आपद्यते प्राप्नोति अबोधिकं मिथ्यात्वफलमिति सूत्रार्थः ।। ५६ ।। अनाचारमाह- 'विवत्ति' त्ति सूत्रम्, विपत्तिर्ब्रह्मचर्यस्य- आज्ञाखण्डनादोषतः साधुसमाचरणस्य प्राणिनां च वधे वधो भवति, तथा संबन्धादाधाकर्मादिकरणेन, वनीपकप्रतीघातः, तदाक्षेपणा- अदित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्स्वजनानां च स्यात् तदाक्षेपदर्शनेनेति सूत्रार्थः ।। ५७ ॥ तथा 'अगुत्ति' त्ति सूत्रम्, अगुप्तिर्ब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति तदुत्फुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानं उक्तेन प्रकारेणासंयमवृद्धिकारकम्, दूरतः परिवर्जयेत् परित्यजेदिति सूत्रार्थः ॥ ५८ ॥ सूत्रेणैवापवादमाह 'तिन्ह'त्ति सूत्रम्, त्रयाणां वक्ष्यमाणलक्षणानां अन्यतरस्य एकस्य निषद्या गोचरप्रविष्टस्य यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह- जरयाऽभिभूतस्य अत्यन्तवृद्धस्य व्याधिमतः अत्यन्तमशक्तस्य तपस्विनो विकृष्टक्षपकस्य । एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः संभवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति सूत्रार्थः ।। ५९ ।। For Private and Personal Use Only षष्ठमध्ययनं | महाचारकथा, सूत्रम् |५६-५९ निषद्या वर्जनम्। ।। ३२० ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy