SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। ३१९ ।। www.kobatirth.org तु पुरः कर्म व्याचक्षते, एतच्च न कल्पते धर्मचारिणाम्, यतश्चैवमतः एतदर्थं पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निर्ग्रन्थाः, क्वेत्याहगृहिभाजने अनन्तरोदित इति सूत्रार्थः ।। ५२ ।। आसंदीपलि अंकेसु, मंचमासालएसु वा अणायरिअमजाणं, आसइत्तु सइत्तु वा ।। सूत्रम् ५३ ।। नासंदीपलि अंकेसु, न निसिजा न पीढए। निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिट्टगा ।। सूत्रम् ५४ ।। गंभीरविजया एए, पाणा दुप्पडिलेहगा। आसंदी पनि अंको अ, एअमहं विवजिआ ।। सूत्रम् ५५ ।। उक्तो गृहिभाजनदोषः, तदभिधानाच्चतुर्दशस्थानविधिः, साम्प्रतं पञ्चदशस्थानविधिमाह - 'आसंदि' त्ति सूत्रम्, आसन्दीपर्यङ्कौ प्रतीतौ, तयोरासन्दीपर्यङ्कयोः प्रतीतयोः, मञ्चाशालकयोश्च, मञ्चः- प्रतीतः आशालकस्तु- अवष्टम्भसमन्वित आसनविशेषः एतयोः अनाचरितं अनासेवितं आर्याणां साधूनां आसितुं उपवेष्टुं स्वप्तुं वा निद्रातिवाहनं वा कर्तुम्, शुषिरदोषादिति सूत्रार्थः ।। ५३ ।। अत्रैवापवादमाह - 'नासंदि'त्ति सूत्रम्, न आसन्दीपर्यङ्कयोः प्रतीतयोः न निषद्यायां- एकादिकल्परूपायां न पीठकेवेत्रमयादौ निर्ग्रन्थाः साधवः अप्रत्युपेक्ष्य चक्षुरादिना, निषीदनादि न कुर्वन्तीति वाक्यशेषः, नञ् सर्वत्राभिसंबध्यते, न कुर्वन्तीति । किंविशिष्टा निर्ग्रन्थाः ? इत्याह- बुद्धोक्ताधिष्ठातारः तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्द्यादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह, विशेषणान्यथानुपपत्तेरिति सूत्रार्थः ।। ५४ ।। तत्रैव दोषमाह- 'गंभीर'त्ति सूत्रम्, गम्भीरं- अप्रकाशं विजय आश्रयः अप्रकाशाश्रया एते प्राणिनामासन्द्यादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते चैतदुपवेशनादिना, आसन्दः पर्यङ्कुश्व चशब्दान्मञ्चादयश्च एतदर्थं विवर्जिताः साधुभिरिति सूत्रार्थः ।। ५५ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir षष्ठमध्ययनं | महाचारकथा, सूत्रम् ५३-५५ पर्यङ्कादि वर्जनम् । ।। ३९९ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy