________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि०
वृत्तियुतम्
।। ३९७ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ।। ४४ ।। यस्मादेवं 'तम्ह'त्ति सूत्रम्, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं त्रसकायसमारम्भं तेन तेन विधिना यावज्जीवया यावज्जीवमेव वर्जयेदिति सूत्रार्थः ।। ४५ ।।
जाई चत्तारि भुजाई, इसिणाऽऽहारमाइणि। ताई तु विवज्रंतो, संजमं अणुपालए ।। सूत्रम् ४६ ।।
पिंडं सिद्धं च वत्थं च, चउत्थं पायमेव य अकप्पिअं न इच्छिज्जा, पडिगाहिज कप्पिअं ।। सूत्रम् ४७ ।। जे निआगं ममायंति, की अमुद्देसि आहडं । वहं ते समणुजाणंति, इअ उत्तं महेसिणा ।। सूत्रम् ४८ ।।
तम्हा असणपाणाई, की अमुद्देसि आहडं। वज्जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ।। सूत्रम् ४९ ।। उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतद्वृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः यथोक्तं- 'अकप्पो गिहिभायण मित्यादि, तत्राकल्पो द्विविध:- शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च तत्र शिक्षकस्थापनाकल्पः अनधीतपिण्डनिर्युक्त्यादिनाऽऽनीतमाहारादि न कल्पत इति उक्तं च-' "अणहीआ खलु जेणं पिंडेसणसेज्जवत्थपाएसा । तेणाणियाणि जतिणो कप्पंति ण पिंडमाईणि ॥ १ ॥ उउबर्द्धमि न अणला वासावासे उ दोऽवि णो सेहा । दिक्खिज्जंती पायं ठवणाकप्पो इमो होइ ॥ २ ॥ अकल्पस्थापनाकल्पमाह-'जाई'ति सूत्रम्, यानि चत्वारि अभोज्यानि संयमापकारित्वेनाकल्पनीयानि ऋषीणां साधूनां आहारादीनि आहारशय्यावस्त्रपात्राणि तानि तु विधिना वर्जयन् संयमं सप्तदशप्रकारमनुपालयेत्, तदत्यागे संयमाभावादिति सूत्रार्थः ।। ४६ ।। एतदेव स्पष्टयति- 'पिंड 'न्ति सूत्रम्, पिण्डं शय्यां च वस्त्रं च ® अनधीताः खलु येन पिण्डैषणाशय्यावस्त्रपात्रैषणाः। तेनानीतानि यतेः न कल्पन्ते पिण्डादीनि ॥ १ ॥ ऋतुबद्धे नानलाः वर्षावासे तु द्वयेऽपि न शैक्षकाः। दीक्ष्यन्ते प्रायः स्थापनाकल्पोऽयं भवति ॥ २ ॥
For Private and Personal Use Only
षष्ठमध्ययनं महाचारकथा,
सूत्रम ४६-४९ अकल्प्य पिण्डः ।
।। ३९७ ।।