________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
॥ १० ॥
www.kobatirth.org
ननु दसकालियनिज्जुत्तिं कीत्तइस्सामित्ति अस्मादेव वचनतः प्रकृतद्वारार्थस्यावगतत्वात् तदुपन्यासोऽनर्थक इति, न, अधिकृतनिक्षेपादिद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तद्बलेनैव च निर्युक्तिकारेणापि तथोपन्यस्तत्वात्, अस्मादेव स्थानादन्यत्राप्यादी शास्त्राभिधानपूर्वक उपन्यासः क्रियत इति भावना । व्याख्यातं लेशतो निर्युक्तिगाथादलम्, पश्चार्द्ध त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतस्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितद्भेदसूत्रादिलक्षणतदर्हपर्षदादयश्च वक्तुं शक्यन्ते, नान्यत्र, निर्विषयत्वादित्यलं प्रसङ्गेन । साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह निर्मुक्तिकारः
नि० एयाइँ परूवेडं कप्पे वण्णियगुणेण गुरुणा उ। अणुओगो दसवेयालियस्स विहिणा कहेयव्वो । ६ ॥
एतानि निक्षेपादिद्वाराणि प्ररूप्य व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वितेनेत्यर्थः । अनुयोगो दशवैकालिकस्य विधिना प्रवचनोक्तेन कथयितव्य आख्यातव्य इति गाथार्थः । सम्प्रत्यजानानः शिष्यः पृच्छति- यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त ! किमङ्गमङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषां मध्ये त्रयो विकल्पाः खलु प्रयुज्यन्ते, तद्यथा दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतो दशादीनां निक्षेपः कर्त्तव्यः, तद्यथा- दशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह निर्युक्तिकारः
नि०- दसकालियंति नामं संखाए कालओ य निद्देसो दसकालियसुअखंधं अज्झयणुद्देस निक्खिविरं ॥ ७ ॥ दशकालिकं प्राग्निरूपितशब्दार्थं इति एवंभूतं यत् नाम अभिधानम्, इदं किं ? -संख्यानं संख्या तया, तथा कालतश्च कालेन चायं निर्देशः निर्देशनं निर्देश:, विशेषाभिधानमित्यर्थः, अस्य च निबन्धनं विशेषेण वक्ष्यामः 'मणगं पडुच्च' इत्यादिना
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रथममध्ययनं द्रुमपुष्पिका,
निर्युक्तिः
दशवैकालिकानुयोगा
रम्भः 'निक्षेपे' ति प्रथम
द्वारं च ।
॥ १० ॥