SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ॥९॥ www.kobatirth.org जितपरिषत् परप्रवादिक्षोभ्यो न भवति, जितनिद्रोऽप्रमत्तत्वाद् व्याख्यानरतिर्भवति प्रकामनिकामशायिनश्च शिष्यांश्चोदयति, मध्यस्थः संवादको भवति, देशकालभावज्ञो देशादिगुणानवबुद्ध्याप्रतिबद्धो विहरति देशनां च करोति, आसन्नलब्धप्रतिभो जात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थो भवति, ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान् भावान् सम्यक् प्ररूपयति नागममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, स्वसमयपरसमयवित् सुखं परमताक्षेपमुखेन स्वसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् परप्रवादिक्षोभमुत्पादयति, शिवो गुणशतकलितो मारिरोगाद्युपद्रवविघातकृद् भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एव योग्यः प्रवचनं- आगमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, उक्तं च-गुणसुट्ठिअस्स वयणं घयमहुसित्तोव्व पावओ भाइ। गुणहीणस्स न सोहइ णेहविहीणो जह पईवो ॥ १ ॥ तथा चान्येनाप्युक्तं क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ।। १ ।। तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् ॥ २ ॥ शीतेऽपि यत्नलब्धो न सेव्यतेऽग्निर्यथा श्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥ ३ ॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥ ४ ॥ कस्स ि कस्यानुयोग? इति वक्तव्यम्, तत्र सकल श्रुतज्ञानस्याप्यनुयोगो भवति, अमुं पुनः प्रारम्भमाश्रित्य दशकालिकस्येति । अत्राह® न्यायसूत्रे पञ्चमाध्यायाद्याह्निके सविस्तरं जातिस्वरूपम्। ०पि कार्ये (प्र० ) । ०तसमन्वितः (प्र०) । गुणसुस्थितस्य वचनं घृतमधुसिक्तः पावक इव भाति । गुणहीनस्य न शोभते स्नेहविहीनो यथा प्रदीपः ॥ १ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रथममध्ययनं द्रुमपुष्पिका, निर्युक्तिः ४-५ पृथक्त्वानुयोगाधिकारश्वरणकरणा नुयोगस्य च निक्षेपादिद्वाराणि । ॥ ९ ॥
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy