________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
FREE
श्रीदशवैकालिक
हारि० वृत्तियुतम्
प्रथममध्ययन द्रमष्पिका, नियुक्तिः८ एककनिक्षेपः।
ग्रन्थेन, यतश्चैवमत: दसकालियं ति कालेन निर्वृत्तं कालिकं दशशब्दस्य कालशब्दस्य च निक्षेपः, निर्वृत्तार्थस्तु निक्षेपः, तथा श्रुतस्कन्धं तथाऽध्ययनं उद्देशं तदेकदेशभूतम्, किं?- निक्षेप्नुमनुयोगोऽस्य कर्त्तव्य इति गाथार्थः ।। तत्र 'यथोद्देशं निर्देश इति न्यायादधिकृतशास्त्राभिधानोपयोगित्वाच्च दशशब्दस्यैवादौ निक्षेपः प्रदर्श्यते- तत्र दशैकाद्यायत्ता वर्तन्ते, एकाद्यभावे दशानामप्यभावाद्, अत एकस्यैव तावन्निक्षेपप्रतिपिपादयिषयाऽऽह
नि०- णामं ठवणा दविए माउयपयसंगहेक्कए चेव । पज्जवभावे य तहा सत्तेए एक्कगा होति ॥८॥ - इहैक एव एककः, तत्र नामैककः एक इति नाम स्थापनैककः एक इति स्थापना, द्रव्यैककं त्रिधा-सचित्तादि, तत्र सचित्तमेकं पुरुषद्रव्यम्, अचित्तमेकं रूपकद्रव्यम्, मिश्रं तदेव कटकादिभूषितं पुरुषद्रव्यमिति, मातृकापदैककं एक मातृकापदम्, तद्यथाउप्पन्ने इवे' त्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा- उप्पन्नेइ वा विगमेइ वा धुवेइ वा अमूनि च (वा) मातृकापदानि अ आ इ ई इत्येवमादीनि, सकलशब्दव्यवहारव्यापकत्वान्मातृकापदानि, इह चाभिधेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, सङ्घहैककः शालिरिति, अयमत्र भावार्थ:- सङ्ग्रहः- समुदायः तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः, तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शालिरिति, लोके तथादर्शनात् अयं चादिष्टानादिष्टभेदेन द्विधा- तत्रानादिष्टो यथा शालिः, आदिष्टो यथा कलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेष्वपि यथारूपमायोज्यौ, पर्यायैककः एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरम्, स चानादिष्टो वर्णादिः आदिष्टः कृष्णादिरिति । अन्ये तु समस्तश्रुतस्कन्धवस्त्वपेक्षयेत्थं व्याचक्षते- अनादिष्टः श्रुतस्कन्ध आदिष्टो दशकालिकाख्य O०पदेष्वपि (प्र०)। 0 चूर्णी-अणाइई दसगालियं आइई दुमपुस्फिअं सामण्णपुब्वियं एवमादि ।
॥११।।
For Private and Personal Use Only