SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir श्रीदशवैकालिक জান্তানি वृत्तियुतम् 11३००11 षष्ठमध्ययन महाचारकथा, सूत्रम् २६७-२६८ अष्टादशासंयम स्थानानि। सूत्रम् व्यक्तानाम, सबालवृद्धानामित्यर्थः, व्याधिमतां चशब्दादव्याधिमतांच, सरुजानां नीरुजानां चेति भावः, ये गुणा वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः, अखण्डा देशविराधनापरित्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शृणुत यथा । कर्तव्यास्तथेति सूत्रार्थः ॥ ६॥ ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीति अगुणास्तावदुच्यन्ते- दस त्ति सूत्रम्, दशाष्टौ च स्थानानि असंयमस्थानानि वक्ष्यमाणलक्षणानि यानि आश्रित्य बालः अज्ञःअपराध्यति तत्सेवनयाऽपराधमाप्नोति, कथम- नियुक्तिः पराध्यतीत्याह- तत्रान्यतरे स्थाने वर्तमानः प्रमादेन निर्ग्रन्थत्वात् निर्ग्रन्थभावाद् भ्रश्यति निश्चयनयेनापैति बाल इति सूत्रार्थः ।। ७ ।। अमुमेवार्थं सूत्रस्पर्शनियुक्त्या स्पष्टयतिनि०- अट्ठारस ठाणाई आयारकहाएँ जाई भणियाई । तेसिं अन्नतरागं सेवंतु न होइ सो समणो ।। २६७ ।। अष्टादशअष्टादशस्थानान्याचारकथायां प्रस्तुतायां यानि भणितानि तीर्थकरैस्तेषामन्यतरस्थानं सेवमानो न भवत्यसौ श्रमण आसेवक इति गाथार्थः ।। २६७ ।। कानि पुनस्तानि स्थानानीत्याह नियुक्तिकार: नि०- वयछक्कं कायछक्वं, अकप्पो गिहिभायणं । पलियंकनिसेजा य, सिणाणं सोहवजणं ।। २६८।। व्रतषट्कं प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड्व्रतानि कायषट्क-पृथिव्यादयः षड्जीवनिकाया: अकल्पः। शिक्षकस्थापनाकल्पादिर्वक्ष्यमाण: गृहिभाजनंगृहस्थसंबन्धि कांस्यभाजनादि प्रतीतं पर्यङ्कःशयनविशेषः प्रतीतः। निषद्याच गृहे एकानेकरूपा स्नानं देशसर्वभेदभिन्नं शोभावर्जनं विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसंबध्यते, शोभावर्जन स्नानवर्जनमित्यादीति गाथार्थः ।। २६८॥ तथिमं पढमं ठाणं, महावीरेण देसि। अहिंसा निउणा दिट्ठा, सव्वभूएम संजमो।सूत्रम् ८।। स्थानानि। || ३०७॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy