________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। ३०५ ।।
www.kobatirth.org
नि०- हसिअ ३ ललिअ ४ उवगूहिअ ५ दंत ६ नहनिवाय ७ चुंबणं ८ होइ। आलिंगण ९ मायाणं १० कर ११ सेवण १२ संग १३ किड्डा १४ अ ।। २६२ ।।
हसितं वक्रोक्तिगर्भं प्रतीतं ललितं पाशकादिक्रीडा उपगूहितं परिष्वक्तं दन्तनिपातो- दशनच्छेद्यविधिः नखनिपातोनखरदनजातिः चुम्बनं चैवेति- चुम्बनविकल्प: आलिङ्गनं- ईषत्स्पर्शनं आदानं कुचादिग्रहणं करसेवणं ति प्राकृतशैल्या करणासेवने, तत्र करणं नाम नागरकादिप्रारम्भयन्त्रं आसेवनं मैथुनक्रिया अनङ्गक्रीडा च अस्यादावर्थक्रियेति गाथार्थः ॥ २६२ ।। उक्तः कामः, साम्प्रतं धर्मादीनामेव सपत्नतासपत्नते अभिधित्सुराह
नि०- धम्मो अत्थो कामो भिन्ने ते पिंडिया पडिसवत्ता। जिणवयणं उत्तिन्ना असवत्ता होंति नायव्वा ।। २६३ ।। धर्मोऽर्थः कामः त्रय एते पिण्डिता युगपत्संपातेन प्रतिसपत्नाः परस्परविरोधिनः लोके कुप्रवचनेषु च यथोक्तं- अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियाश्च ॥ १ ॥ इत्यादि एते च परस्परविरोधिनोऽपि सन्तो जिनवचनमवतीर्णास्ततः कुशलाशययोगतो व्यवहारेण धर्मादितत्त्वस्वरूपतो वा निश्चयेन असपत्नाः परस्पराविरोधिनो भवन्ति ज्ञातव्या इति गाथार्थ: ।। २६३ ।। तत्र व्यवहारेणाविरोधमाह
नि०- जिणवयणमि परिणए अवत्थविहिआणुठाणओ धम्मो सच्छासयप्पयोगा अत्थो वीसंभओ कामो ।। २६४ ।। जिनवचने यथावत्परिणते सति अवस्थोचितविहितानुष्ठानात् स्वयोग्यतामपेक्ष्य दर्शनादिश्रावकप्रतिमाङ्गीकरणे निरतिचारपालनाद्भवति धर्मः, स्वच्छाशयप्रयोगाद्विशिष्टलोकतः पुण्यबलाचार्थः, विश्रम्भत उचितकलत्राङ्गीकरणतापेक्षो विश्रम्भेण काम इति गाथार्थः ।। २६४ ।। अधुना निश्चयेनाविरोधमाह
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
षष्ठमध्ययन महाचारकथा,
निर्युक्तिः
२६२-२६४ | कामनिक्षेपाः कामस्य
भेदाः।
।। ३०५ ।।