SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदश वैकालिकं श्रीहारि० वृत्तियुतम् ॥ ३०४ ॥ www.kobatirth.org नानाविधोपकरणं ताम्रकलशकडिल्लादि जातितः अनेकविधं व्यक्तितः कुप्यलक्षणं भवति । एषः अनन्तरोदितोऽर्थो भणित उक्तः षड्विधः, चतुःषष्टिभेदस्तु ओघविभागाभ्यां प्रकृतोपयोगो द्रव्यार्थ इति गाथार्थः ।। २५८ ।। उक्तोऽर्थः साम्प्रतं काममाहनि०- कामो चडवीसविहो संपत्तो खलु तहा असंपत्तो। संपत्तो चउदसहा दसहा पुण होअसंपत्तो ।। २५९ ।। कामश्चतुर्विंशतिविधः ओघतः, संप्राप्तः खलु तथा असंप्राप्तो वक्ष्यमाणस्वरूपः, संप्राप्तः चतुर्दशधा चतुर्दशप्रकारः, दशधा पुनर्भवत्यसंप्राप्त इति गाथासमासार्थः ।। २५९ ।। व्यासार्थं त्वाह, तत्राप्यल्पतरवक्तव्यत्वादसंप्राप्तमाह नि०- तत्थ असंपत्तो अत्थो १ चिंता २ तह सद्ध ३ संसरणमेव ४ । विक्कवय ५ लखनासो ६ पमाय ७ उम्माय ८ तब्भावो ९ ।। २६० ।। तत्रासंप्राप्तोऽयं कामः, अर्थे ति अर्थनमर्थः अदृष्टेऽपि विलयादौ श्रुत्वा तदभिप्रायमात्रमित्यर्थः, तत्रैवाहो रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता, तथा श्रद्धा तत्संगमाभिलाषः, संस्मरणमेव- संकल्पिकतद्रूपस्यालेख्यादिदर्शनम्, वियोगतः पुनः पुनरतिविक्लवता - तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता, लज्जानाशो गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनम्, प्रमादः - तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम्, उन्मादो- नष्टचित्ततया आलजालभाषणम्, तद्भावना स्तम्भादीनामपि तद्बुद्ध्याऽऽलिङ्गनादिचेष्टेति गाथार्थः ॥ २६० ॥ नि० मरणं १० च होइ दसमो संपत्तंपिअ समासओ वोच्छं। दिट्ठीए संपाओ १ दिट्ठीसेवा य संभासो २ ।। २६१ ।। मरणं च शोकाद्यतिरेकेण क्रमेण भवति दशमः असंप्राप्तकामभेदः । संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुनः संपातः स्त्रीणां कुचाद्यवलोकनं दृष्टिसेवा च भावसारं तद्दृष्टेर्हष्टिमेलनम्, संभाषणं- उचितकाले स्मरकथाभिर्जल्प इति गाथार्थः ।। २६१ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir षष्ठमध्ययनं | महाचारकथा, निर्युक्तिः २५१-२६१ | कामनिक्षेपाः कामस्य | भेदाः । ।। ३०४ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy