________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। ३०३॥
२५६-२५८ धान्यरत्नस्थावराद्याः।
रत्नानि चतुर्विंशतिः, सुवर्णत्रपुताम्ररजतलोहानि सीसकहिरण्यपाषाणवज्रमणिमौक्तिकप्रवालानि । शङ्खतिनिशागरुचन्दनानि । षष्ठमध्ययनं वस्त्रामिलानि काष्ठानि तथा चर्मदन्तवाला गन्धा द्रव्यौषधानि च । एतान्यपि प्रायो लौकिकसिद्धान्येव नवरं रजतं-रूप्यं हिरण्यं
महाचारकथा,
नियुक्तिः रूपकादि पाषाणा- विजातीयरत्नानि मणयो- जात्यानि । तिनिशो- वृक्षविशेषः अमिलानि- ऊर्णावस्त्राणि काष्ठानिश्रीपादिफलकादीनि चर्माणि सिंहादीनां दन्ता गजादीनां वाला: चमर्यादीनां द्रव्यौषधानि- पिप्पल्यादीनीति गाथा-- द्वयार्थः ।। २५४-२५५ ।। उक्तो रत्नविभागः, स्थावरादिविभागमाह
नि०-भूमी घरा य तरुगण तिविहं पुण थावरं मुणेअव्वं । चक्कारबद्धमाणुस दुविहं पुण होइ दुपयं तु ॥ २५६ ।। भूमिर्गृहाणि तरुगणाश्च, चशब्दस्य व्यवहित उपन्यासः, त्रिविधं पुनरोघत: स्थावरं मन्तव्यम्, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?, स्वगतान् भेदान्, तद्यथा- भूमिः क्षेत्रम्, तच्च त्रिधा-सेतु केतु सेतुकेतु च, गृहाणि प्रासादाः, तेऽपि त्रिविधा:खातोत्छुितोभयरूपाः, तरुगणा नालिकेद्यारामा इति, चक्रारबद्धमानुष मिति चक्रारबद्धं- गन्त्र्यादि मानुषं- दासादि, एवं द्विपदं पुनर्भवति द्विविधमिति गाथार्थः ।। २५६।। उक्तं स्थावरादि, चतुष्पदमाह
नि०- गावी महिसी उट्ठा अयएलगआसआसतरगा अ। घोडग गद्दह हत्थी चउप्पयं होइ दसहा उ॥२५७॥ गौर्महिषी उष्ट्री अजा एडका अश्वा अश्वतराश्च घोटका गर्दभा हस्तिनश्चतुष्पदं भवति दशधा तु, एते गवादयः प्रतीता एव, अनवरमश्वा- वाल्हीकादिदेशोत्पन्ना जात्याः, अश्वतरा-वेगसराः अजात्या घोटका इति गाथार्थः ।। २५७ ।। उक्तं चतुष्पदम्, कुप्यमाह
नि०- नाणाविहोवगरणं णेगविहं कुप्पलक्खणं होइ। एसो अत्थो भणिओ छव्विह चउसट्ठिभेओउ ।। २५८।।
3
02 ||३०३||
For Private and Personal Use Only