________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ||३०१॥
नि०- पंच य अणुव्वयाई गुणव्वयाईच होंति तिन्नेव । सिक्खावयाई चउरो गिहिधम्मो बारसविहो अ॥२४७ ।।
षष्ठमध्ययन पञ्चाणुव्रतानि- स्थूलप्राणातिपातनिवृत्त्यादीनि, गुणव्रतानि च भवन्ति त्रीण्येव- दिव्रतादीनि शिक्षापदानि चत्वारि
महाचारकथा,
नियुक्तिः सामायिकादीनि, गृहिधर्मो द्वादशविधस्तु एष एवाणुव्रतादिः । अणुव्रतादिस्वरूपंचावश्यके चर्चितत्वान्नोक्तमिति गाथार्थः ।।
२४७-२४८ २४७ ।। साधुधर्ममाह
धर्मस्य भेदाः।
नियुक्तिः नि०- खंती अमद्दवऽज्जव मुत्ती तवसंजमे अबोद्धव्वे । सच्चं सोचं आकिंचणंच बंभं च जइधम्मो ।। २४८ ।।
२४९-२५० क्षान्तिश्च मार्दवं आर्जवं मुक्तिः तपःसंयमौ च बोद्धव्यौ सत्यं शौचमाकिञ्चन्यं ब्रह्मचर्यं च यतिधर्म इति गाथाक्षरार्थः। अर्थशब्दस्य
निक्षेपाः। भावार्थः पुनर्यथा प्रथमाध्ययने ॥ २४८ ॥
नि०-धम्मो एसुवइट्ठो अत्थस्स चउविहो उ निक्खेवो । ओहेण छव्विहऽत्थो चउसट्ठिविहो विभागेणं ।। २४९ ।। धर्म एष उपदिष्टो व्याख्यातः, अधुना त्वर्थावसरः, तत्रेदमाह- अर्थस्य चतुर्विधस्तु निक्षेपो- नामादिभेदात्, तत्र ओघेन। सामान्यत: षड्डिधोऽर्थ आगमनोआगमव्यतिरिक्तो द्रव्यार्थः, चतुःषष्टिविधो विभागेन विशेषेणेति गाथासमुदायार्थः ।। २४९॥ अवयवार्थं त्वाह
नि०- धन्नाणि रयण थावर दुपयचउप्पय तहेव कुविअंच। ओहेण छव्विहत्थो एसो धीरेहिं पन्नत्तो ।। २५०।। धान्यानि यवादीनि, रत्नं- सुवर्ण स्थावरं- भूमिगृहादि द्विपदं- गन्त्र्यादि चतुष्पदं- गवादि तथैव कुप्यं च- ताम्रकलशाद्य- ३०१ । नेकविधम् । ओघेन षड्विधोऽर्थ एषः अनन्तरोदितः धीरैः तीर्थकरगणधरैः प्रज्ञप्तः प्ररूपित इति गाथार्थः ।। २५० ।। एनमेव
0 चरित्तधम्मो समणधम्मो इत्यत्र चूर्णिकृद्भिर्विवृत्योक्तेः संलीनतासंयमादौ वा व्याख्यानादेवमाहुः ।
For Private and Personal Use Only