________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२९८॥
सूत्रम् ५० उपसंहारः।
वाच्ये असकृद्धावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति सूत्रार्थः ।। ४८॥ प्रकृतमुपसंहरति-'एअंच' त्ति पञ्चचममध्ययन
पिण्डैषणा, सूत्रम्, एनं च दोषं- अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषिकत्वादिप्राप्तिरूपं दृष्ट्वा आगमतो ज्ञातपुत्रेण भगवता वर्द्धमानेन ।
द्वितीयोद्देशकः भाषितं उक्तं अणुमात्रमपि स्तोकमात्रमपि किमुत प्रभूतं? मेधावी मर्यादावर्ती मायामृषावादं अनन्तरोदितं वर्जयेत् परित्यजेदिति सूत्रार्थः ॥ ४९।। __ सिक्खिऊण भिक्नेसणसोहि, संजयाण बुद्धाण सगासे । तत्थ भिक्खु सुप्पणिहिइंदिए, तिव्वलज्जगुणवं विहरितासि ।। सूत्रम् ५०॥
त्तिबेमि।। समत्तं पिंडेसणानामज्झयणं पंचमं ॥५॥ अध्ययनार्थमुपसंहरन्नाह-'सिक्खिऊण'त्ति सूत्रम्, शिक्षित्वा अधीत्य भिक्षैषणाशुद्धिं पिण्डमार्गणाशुद्धिमुद्मादिरूपाम्, केभ्यः सकाशादित्याह-संयतेभ्यः साधुभ्यो बुद्धेभ्यः अवगततत्त्वेभ्य: गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात, ततः किमित्याहतत्र भिक्षैषणायां भिक्षुः साधुः सुप्रणिहितेन्द्रियः श्रोत्रादिभिर्गाढं तदुपयुक्तः तीव्रलज्ज उत्कृष्टसंयमः सन्, अनेन प्रकारेण गुणवान् विहरेत्- सामाचारीपालनं कुर्याद्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः। उक्तोऽनुगमः। साम्प्रतं नयाः, ते च पूर्ववदेव । द्वितीयोद्देशकः समाप्तः, व्याख्यातं पिण्डैषणाध्ययनम् ।। ५०॥
। सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती
पञ्चममध्ययनं पिण्डैषणाख्यं समाप्तमिति ।।
।।२९८॥
For Private and Personal Use Only