________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२९७।।
पशचममध्ययन पिण्डेषणा, द्वितीयोद्देशकः सूत्रम् ४६-४१ तपस्तेनादिदोषाः।
पोषणादिति सूत्रार्थः ।। ४४ ।। तथा आयरिए'त्ति सूत्रम्, आचार्यानाराधयति, शुद्धभावत्वात्, श्रमणांश्चापि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति, किमिति?, येन जानन्ति तादृशं शुद्धवृत्तमिति सूत्रार्थः ।। ४५ ।।
तवतेणे वयतेणे, रूवतेणे अजे नरे। आयारभावतेणे अ, कुव्वई देवकिव्विसं ।। सूत्रम् ४६ ।। लणवि देवत्तं, उववन्नो देवकिव्विसे । तत्थावि से न याणाइ, किं मे किच्चा इमं फलं?।। सूत्रम् ४७ ।। तत्तोवि से चइत्ताणं, लब्भिही एलमूअयं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा।सूत्रम् ४८ ।। एअंच दोसं दट्टणं, नायपुत्तेण भासि। अणुमायपि मेहावी, मायामोसं विवजए।। सूत्रम् ४९ ।। स्तेनाधिकार एवेदमाह-'तव'त्ति सूत्रम्, तपस्तेनो वास्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियां तथाभावदोषाद्देवकिल्बिर्ष करोति-किल्बिषिकं कर्म निर्वर्त्तयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह- अहम्, अथवा वक्ति- साधव एव क्षपकाः, तूष्णीं वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित् पृष्ट इति, एवं रूपस्तेनो राजपुत्रादितुल्यरूपः, एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् किश्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति सूत्रार्थः ।। ४६।। अयं चेत्थंभूतः लभ्रूण'त्ति सूत्रम्, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेन उपपन्नो देवकिल्बिषे देवकिल्बिषिका ये, तत्राप्यसौ न जानात्यविशुद्धावधिना, किं मम कृत्वा इदं फलं किल्बिषिकदेवत्वमिति सूत्रार्थः ।। ४७ ।। अत्रैव दोषान्तरमाह- 'तत्तोवि'त्ति सूत्रम्, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकतां अजाभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, बोधिर्यत्र सुदुर्लभः सकलसंपन्निबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । इह च प्राप्नोत्येलमूकतामिति
॥२९७॥
For Private and Personal Use Only