SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥२१२॥ पजचममध्ययन पिण्डैषणा, द्वितीयोद्देशकः सूत्रम् २५-२८ भिक्षाटनविधिः। बीजमन्थून यवादिचूर्णान् ज्ञात्वा प्रवचनतो बिभीतक बिभीतकफलं प्रियालं वा प्रियालफलंच आमं अपरिणतं परिवर्जयेदिति सूत्रार्थः ।। २४॥ समुआणं चरे भिक्खू, कुलमुच्चावयं सया। नीयं कुलमइकम्म, ऊसद नाभिधारए ।। सूत्रम् २५ ।। अदीणो वित्तिमेसिजा, न विसीइज पंडिए। अमुच्छिओ भोअणंमि, मायण्णे एसणारए ।। सूत्रम् २६ ।। बहुं परघरे अस्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परोन वा ।। सूत्रम् २७ ।। सयणासणवत्थं वा, भत्तं पाणं व संजए। अदितस्स न कुप्पिज्जा, पच्चक्खेवि अदीसओ।। सूत्रम् २८ ।। विधिमाह-'समुआणं ति सूत्रम्, समुदानं भावभैक्ष्यमाश्रित्य चरेद्भिक्षुः, क्वेत्याह- कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथापरिपाट्येव चरेत् ‘सदा सर्वकालं नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थं उत्सृतं ऋद्धिमत्कुलं नाभिधारयेत् न यायात्, अभिष्वङ्गलोकलाघवादिप्रसङ्गादिति सूत्रार्थः ॥ २५॥ किंच-'अदीण' त्ति सूत्रम्, अदीनो द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः वृत्तिं वर्त्तनं एषयेद् गवेषयेत्, न विषीदेद् अलाभेसति विषादं न कुर्यात् पण्डितः साधुः अमूर्च्छितः अगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति एषणारतः उद्गमोत्पादनैषणापक्षपातीति सूत्रार्थः ।। २६।। एवं च भावयेत्-'बहु'ति सूत्रम्, बहु प्रमाणतः प्रभूतं परगृहे असंयतादिगृहेऽस्ति विविधं अनेकप्रकारं खाद्यं स्वाद्यम्, एतच्चाशनाद्युपलक्षणम्, न तत्र पण्डितः कुप्येत् सदपि न ददातीति न रोपं कुर्यात्, किंतु- इच्छया दद्यात् परोन वे ति इच्छा परस्य, न तत्रान्यत् किञ्चिदपि चिन्तयेद्, सामायिकबाधनादिति सूत्रार्थः ॥ २७॥ एतदेव विशेषेणाह-'सयण'त्ति सूत्रम्, शयनासनवस्त्रं चेत्येकवद्भावः भक्तं पानं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति ॥ २९२।। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy