________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २९१।।
सूत्रम् १४-२४ परपीडाप्रतिपेधाधिकारः।
सूत्रार्थः ॥ १४ ॥ तारिसंति सूत्रम्, तादृशं भक्तपानं तु संयतानामकल्पिकम्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते पाचममध्ययन तादृशमिति सूत्रार्थः ॥ १५॥ एवं तच्च संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनम्, शेषं सूत्रद्वयेऽपि
पिण्डैषणा,
द्वितीयोद्देशकः तुल्यम् । आह- एतत्पूर्वमप्युक्तमेव-'संमद्दमाणी पाणाणि बीआणि हरिआणि अ' इत्यत्र, उच्यते, उक्तं सामान्येन विशेषाभिधानाददोषः॥१६-१७ ।। तथा सालुअंति सूत्रम्, शालूकं वा उत्पलकन्दं विरालिकां पलाशकन्दरूपाम्, पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनालौ प्रतीतौ, तथा मृणालिका पद्मिनीकन्दोत्थां सर्षपनालिका सिद्धार्थकमञ्जरी तथा इक्षुखण्ड अनिवृतं सचित्तम् । एतच्चानिवृतग्रहणं सर्वत्राभिसंबध्यत इति सूत्रार्थः ।।१८।। किंच- तरुणयं ति सूत्रम्, तरुणं वा प्रवालं पल्लवं वृक्षस्य चिश्चिणिकादेः तृणस्य वा मधुरतृणादेः अन्यस्य वापि हरितस्य आर्यकादेः आमं अपरिणतं परिवर्जयेदिति सूत्रार्थः ।। १९॥ तथा-'तरुणिति सूत्रम्, तरुणां वा असंजातां छिवाडि मिति मुगादिफलिं आमां असिद्धां सचेतनाम्, तथा भर्जिता सकृद् एकवारम्, ददतीं प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः ।। २० ।। 'तहा कोलं'ति सूत्रम्, तथा कोलं बदरं अस्विन्नं वयुदकयोगेनानापादितविकारान्तरम्, वेणुकं वंशकरिलं कासवनालिअं श्रीपर्णीफलम्, अस्विन्नमिति सर्वत्र योज्यम्, तथा तिलपर्पटं पिष्टतिलमयं नीमं नीमफलमाम परिवर्जयेदिति सूत्रार्थः ॥२१॥ तहेव'त्ति सूत्रम्, तथैव तान्दुलं पिष्टम्, लोट्टमित्यर्थः, विकटं वा- शुद्धोदकं तथा तप्तनिर्वृतं क्वथितं सत् शीतीभूतम्, तप्तानिवृतं वा-अप्रवृत्तत्रिदण्डम्, तिलपिष्टतिललोट्टम्, पूतिपिण्याकं सर्षपखलमाम परिवर्जयेदिति सूत्रार्थः ।। २२ ॥ कविट्ठ'ति सूत्रम्, कपित्थं कपित्थफलम्, मातुलिङ्ग
चबीजपूरकम्, मूलकसपत्रजालकं मूलवर्तिकांमूलकन्दचक्कलि आमा अपक्कामशस्त्रपरिणतांस्वकायशस्त्रादिनाऽविध्वस्ताम्, । अनन्तकायत्वाद्गुरुत्वख्यापनार्थमुभयम्, मनसापि न प्रार्थयेदिति सूत्रार्थः ।। २३॥ तहेव'त्ति सूत्रम्, तथैव फलमन्थून बदरचूर्णान् ।
5000080800
For Private and Personal Use Only