________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
श्रीहारिक
पशचममध्ययन पिण्डेषणा, प्रथमोद्देशकः सूत्रम् ७५-८१
वृत्तियुतम
||२७९॥
पान
ग्रहणविधिः।
जं जाणेज चिराधोयं, मईए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा, जंच निस्संकिअंभवे ।। सूत्रम् ७६ ।। अजीवं परिणयं नच्चा, पडिगाहिज संजए। अह संकियं भविजा, आसाइत्ताण रोअए। सूत्रम् ७७ ।। थोवमासायणट्ठाए, हत्थगंमि दलाहि मे । मा मे अचंबिलं पूअं, नालं तण्हं विणित्तए ।। सूत्रम् ७८ ।। तंच अचंबिलं पूर्य, नालं तण्हं विणित्तए । दितिअंपडिआइक्खे, न मे कप्पइ तारिसं ।। सूत्रम् ७९ ।। तं च होज अकामेण, विमणेणं पडिच्छि। तं अप्पणा न पिबे, नोवि अन्नस्स दावए ।। सूत्रम् ८० ।। एगतमवक्कमित्ता, अचित्तं पडिलेहिआ। जयं परिट्ठविजा, परिठ्ठप्प पडिक्कमे ॥ सूत्रम् ८१ ।। उक्तोऽशनविधिः, साम्प्रतं पानविधिमाह- तहेव त्ति सूत्रम्, तथैव यथाशनमुच्चावचं तथा पानं उच्च वर्णाद्युपेतं द्राक्षापानादि अवचं वर्णादिहीनं पूत्यारनालादि अथवा वारकधावनं गुडघटधावनमित्यर्थः, संस्वेदज पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः, तन्दुलोदकं अट्ठिकरकं अधुनाधौत अपरिणतं विवर्जयेदिति सूत्रार्थः ।। ७५ ।। अत्रैव विधिमाह-'जं जाणिज'त्ति सूत्रम्, यत्तन्दुलोदकं जानीयात् विद्याच्चिरधौतम्, कथं जानीयादित्यत आह- मत्या दर्शनेन वा, मत्या तद्हणादिकर्मजया दर्शनेन वा वर्णादिपरिणतसूत्रानुसारेण च, वा चशब्दार्थः, तदप्येवंभूतं कियती वेलाऽस्य धौतस्येति पृष्वा गृहस्थम्, श्रुत्वा वा महती वेलेति श्रुत्वा च प्रतिवचनं यच्चे'ति यदेव निःशङ्कितं भवति निरवयवप्रशान्ततया तन्दुलोदकं । तत्प्रतिगृह्णीयादिति, विशेष: पिण्डनिर्युक्तावुक्त इति सूत्रार्थः ।।७६ ।। उष्णोदकादिविधिमाह-अजीव ति सूत्रम्, उष्णोदकम
जीवं परिणतं ज्ञात्वा त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदित्थंभूतं प्रतिगृह्णीयात्संयतः, चतुर्थरसमपूत्यादि। । देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः, अथ शङ्कितं भवेत् तत आस्वाद्य रोचयेद् विनिश्चयं कुर्यादिति सूत्रार्थः ।। ७७ ॥ तच्चैवं
॥२७२।।
For Private and Personal Use Only