________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1868
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२७८॥
पाचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् ७१-७४ कन्दादिप्रतिषेधः। सूत्रम् ७५ पानग्रहणविधिः।
तहेव सत्तुचुन्नाई, कोलचुन्नाई आवणे । सक्कुलिं फाणिअंपूअं, अन्नं वावि तहाविहं ।। सूत्रम् ७१।। विकायमाणं पसढं, रएणं परिफाासि। दिति अंपडिआइक्खे, न मे कप्पड़ तारिस ।। सूत्रम् ७२ ।। बहुअट्ठियं पुग्गलं, अणिमिसंवा बहुकंटयं । अच्छियं तिंदुयं बिल्लं, उच्छुखंड व सिंबलिं ।। सूत्रम् ७३ ।।
अप्पे सिआ भोअणजाए, बहुउज्झियधम्मियं । दितिअंपडिआइक्खे, न मे कप्पड़ तारिसं ।। सूत्रम् ७४ ।। प्रतिषेधाधिकार एवाह-'कंदं मूलं' ति सूत्रम्, कन्दं सूरणादिलक्षणं मूलं विदारिकारूपं प्रलम्ब वा तालफलादि, आम छिन्नं वा सन्निरं सन्निरमिति पत्रशाकम्, तुम्बाकं त्वग्मिचान्तर्वर्ति आर्द्रा वा तुलसीमित्यन्ये, शृङ्गबेरं चाकम्, आम परिवर्जयेदिति सूत्रार्थः ॥ ७० ॥ तहेव' त्ति सूत्रम्, तथैव सक्तुचूर्णान् सक्तून् कोलचूर्णान् बदरसक्तून् आपणे वीथ्याम्, तथा शष्कुली तिलपर्पटिकां । फाणितं द्रवगुडं पूर्य कणिकादिमयम्, अन्यद्वा तथाविध मोदकादि ।। ७१॥ किमित्याह- विक्कायमाणं ति सूत्रम्, विक्रीयमाणमापणे इति वर्तते, प्रसहा अनेकदिवसस्थापनेन प्रकटम्, अत एव रजसा पार्थिवेन परिस्पृष्ट व्याप्तम्, तदित्थंभूतं तत्र ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः ।। ७२ ।। किंच- बहुअडियं ति सूत्रम्, बह्वस्थि पुद्गलं मांसं अनिमिषं वा मत्स्यं वा बहुकण्टकम्, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति- वनस्पत्यधिकारात्तथाविधफलाभिधाने एते इति, तथा चाह- अत्थिक अस्थिकवृक्षफलम्, तेंदुकं तेन्दुरुकीफलम्, बिल्वं इक्षुखण्डमिति च प्रतीते, शाल्मलिं वा वल्लादिफलिं वा, वाशब्दस्य व्यवहितः संबन्ध इति सूत्रार्थः ॥७३॥ अत्रैव दोषमाह- अप्पे त्ति सूत्रम्, अल्पं स्याद्भोजनजातमत्र, अपि तु बहूज्झनधर्मकमेतत्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। ७४ ।।
तहेवुच्चावयं पाणं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाधोअंविवजए।। सूत्रम् ७५ ।।
॥ २७८।।
For Private and Personal Use Only