________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २८०॥
सूत्रम्
८२-८६ वसत्यभावे भोजनविधिः।
थोवं'ति सूत्रम्, स्तोकमास्वादनार्थं प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मे अत्यम्लं पूति नालं पशचममध्ययन
पिण्डैषणा, तृडपनोदाय । ततःकिमनेनानुपयोगिनेति सूत्रार्थः ।। ७८ ।। 'तंच'त्ति सूत्रम्, सुगमम् ।। ७९ ।। आस्वादितं च सत्साधुप्रायोग्य
प्रथमोद्देशकः चेगृह्यत एव नो चेदग्राह्यम्। 'तं च'त्ति सूत्रम्, तच्च अत्यम्लादि भवेद् अकामेन उपरोधशीलतया विमनस्केन अन्यचित्तेन । प्रतीप्सितं गृहीतं तदात्मना कायापकारकमित्यनाभोगधर्मश्रद्धया न पिबेत् नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणम्, इह च 'सव्वत्थ संजमं संजमाओ अप्पाणमेवे'त्यादि भावनयेति सूत्रार्थः ।। ८० ॥ अस्यैव। विधिमाह-एगंतंति सूत्रम्, एकान्तं अवक्रम्य गत्वा अचित्तं दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणेन स्थण्डिलमिति । गम्यते यतं अत्वरितं प्रतिष्ठापयेद्विधिना त्रिर्वाक्यपूर्वं व्युत्सृजेत् । प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेदीर्यापथिकाम् । एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति सूत्रार्थः ।। ८१।। सिआ अगोयरम्गगओ, इच्छिता परिभुत्तु(भुंजिउं)। कुट्टगं भित्तिमूलं वा, पडिलेहिताण फासु ।। सूत्रम् ८२ ।। अणुन्नवित्तु मेहावी, पडिच्छन्नंमि संवुडे । हत्थगं संपमजित्ता, तत्थ भुंजिन संजए। सूत्रम् ८३ ।। तत्थ से भुंजमाणस्स, अट्ठिअंकंटओ सिआ। तणकट्ठसक्करं वावि, अन्नं वावि तहाविहं ।। सूत्रम् ८४ ।। तं उक्खिवित्तु न निक्खिवे, आसएण न छहुए। हत्थेण तं गहेऊण, एगंतमवक्कमे ।। सूत्रम् ८५।। एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ। जयं परिट्ठविजा, परिठ्ठप्प पडिक्कमे ।। सूत्रम् ८६॥
|| २८० ।। एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाह-'सिआ अत्ति सूत्रम्, स्यात् कदाचिद् गोचराग्रगतो ग्रामान्तरं भिक्षा प्रविष्ट इच्छेत्परिभोक्तुं पानादि पिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे कोष्ठकं शून्यचट्टमठादि भित्तिमूलं वा कुड्यैकदेशादि,
For Private and Personal Use Only