________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
11६॥
श्वतुर्विधो भवति, कथं? चरणकरणानुयोगः चर्यत इति चरणं- व्रतादि, यथोक्तं वय समणधम्मसंजम वेयावचं च बभगुत्तीओ।।
प्रथममध्ययन णाणादितियं तव कोहनिग्गहाई चरणमेयं ।। १।। क्रियते इति करणं-पिण्डविशुद्ध्यादि, उक्तं च पिंडविसोही समिई भावण पडिमा । द्रुमपुष्पिका,
नियुक्तिः य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥१॥ चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो।।
२-३ योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्धमनुरूपः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमा । चतुर्विधो
ऽनुयोगः। (द्वितीया)न्तोऽपि द्रष्टव्यः, यथा कयरे आगच्छइ दित्तरूवे इत्यादि, धर्म इति धर्मकथानुयोगः, काले चेति कालानुयोगश्च । गणितानुयोगक्षेत्यर्थः, द्रव्ये चे ति द्रव्यानुयोगश्च । तत्र कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादीनि गणितानुयोगः, दृष्टिवादस्तु द्रव्यानुयोग इति, उक्तं च कालियसुअंच इसिभासियाइ तइया । यसूरपन्नत्ती । सव्वो य दिठिवाओ चउत्थओ होइ अणुओगो॥१॥ इति गाथार्थः ।। इह चार्थतोऽनुयोगो द्विधा- अपृथक्त्वानुयोगः पृथक्त्वानुयोगश्च तत्रापृथक्त्वानुयोगो यत्रैकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते, अनन्तगमपर्यायत्वात्सूत्रस्य, पृथक्त्वानुयोगश्च यत्र क्वचित्सूत्रे चरणकरणमेव क्वचित्पुनर्धर्मकथैवेत्यादि, अनयोश्च वक्तव्यता जावंत अज्जवइरा अपुहत्तं कालियाणु
ओगस्स। तेणारेण पुहत्तं कालियसुय दिठिवाए य॥१॥ इत्यादेग्रन्थादावश्यकविशेषविवरणाचावसेयेति ॥ इह पुनः पृथक्त्वानुयोगेनाधिकारः, तथा चाह नियुक्तिकार:
व्रतानि श्रमणधर्मः संयमो वैयावृत्त्यं च ब्रह्मगुप्तयः । ज्ञानादित्रयं तपः क्रोधनिग्रहादि चरणमेतत् ।। Oपिण्डविशुद्धिः समितयः भावनाः प्रतिमाश्च इन्द्रियनिरोधः। प्रतिलेखना गुप्तयः अभिग्रहाश्चैव करणं तु 10 कतर आगच्छति दीप्तरूपः10 कालिकश्रुतं च ऋषिभाषितानि तृतीया (गणितानुयोगमयी) च सूर्यप्रज्ञप्तिः। सर्वश्व दृष्टिवादश्चतुर्थो भवत्यनुयोगः ।।यावदार्यवज्रा अपृथक्त्वं कालिकानुयोगस्य । ततोऽर्वाक् (तत आरात्) पृथक्त्वं कालिकश्रुते दृष्टिवादे च ॥ १ वक्तव्या प्र.।
3888888888888
For Private and Personal Use Only