________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shes Kalassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥ ५ ॥
२-३
ऽधिगम्यते साध्यत इतियावत्, अथवा मङ्ग इति धर्माभिधानम्, ला आदाने अस्य धातोर्मङ्गे उपपदे आतोऽनुपसर्गे कः (पा० प्रथममध्ययनं १३-२-३) इति कप्रत्ययान्तस्यानुबन्धलोपे कृते आतो लोप इटि च (पा०६-४-६४) क्ङिति इत्यनेन सूत्रेणाकारलोपे च कृते । द्रुमपुष्पिका,
नियुक्तिः प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गलातीति मङ्गलम्, धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति । मङ्गलम्, संसारादपनयतीत्यर्थः। तच्च नामादि चतुर्विधम्, तद्यथा नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेति,
अनुयोगः। एतेषां च स्वरूपमावश्यकविशेषविवरणादवसेयमिति ।। अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकारः
नि०-नामाइमंगलं पिय चउव्विहं पन्नवेऊणं ॥२॥ नामादिमङ्गलं चतुर्विधमपि प्रज्ञाप्य प्ररूप्येति गाथार्थः । तत्र समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानात् प्रज्ञाप्य किमत आह
नि०-सुयनाणे अणुओगेणाहिगयं सो चउव्विहो होइ । चरणकरणाणुओगे धम्मे गणिए (काले)य दविए य ॥३॥ श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना- भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तं एत्थं पुण अहिगारो सुयणाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविय अणुओगु पईवदिहतो॥१॥ तस्य चोद्देशादयः प्रवर्त्तन्ते इति, उक्तं च सुअणाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तइ तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञातस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्यधायि श्रुतज्ञानेऽनुयोगेनाधिकृत मिति । सः अनुयोग
0 अत्र पुनरधिकारः श्रुतज्ञानेन यतः श्रुतेनैव । शेषाणामात्मनोऽपि च अनुयोगः प्रदीपदृष्टान्तः (न्तात्) | 0 श्रुतज्ञानस्य उद्देशः समुद्देशः अनुज्ञा अनुयोगः प्रवर्तते।
५
For Private and Personal Use Only