SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् ॥ ४ ॥ प्रथममध्ययन दुमपुष्पिका, नियुक्ति:२ हेतु शब्दार्थच। नि०-आइमज्झवसाणे काउं मंगलपरिग्गहं विहिणा। शास्त्रस्यादौ- प्रारम्भे मध्ये- मध्यविभागे अवसाने- पर्यन्ते, किं?- कृत्वा मङ्गलपरिग्रहम्, कथं?- विधिना प्रवचनोक्तेन प्रकारेण, आह-किमर्थं मङ्गलत्रयपरिकल्पनम्? इति, उच्यते, इहादिमङ्गलपरिग्रहः सकलविघ्नापोहेनाभिलषितशास्त्रार्थपारगमनार्थम्, तस्थिरीकरणार्थं च मध्यमङ्गलपरिग्रहः,तस्यैव शिष्यप्रशिष्यसन्तानाव्यवच्छेदायावसानमङ्गलपरिग्रह इति। अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादवसेयौ इति । सामान्यतस्तु सकलमपीदं शास्त्रं मङ्गलम्, निर्जरार्थत्वात्तपोवत्, न चासिद्धो हेतुः, यतो वचनविज्ञानरूपं शास्त्रम्, ज्ञानस्य च निर्जरार्थता प्रतिपादितैव, यत उक्तं ज णेरइओ कम्म खवेइ बहुयाहि वासकोडीहिं। तं नाणी तिहि गुत्तो खवेइ ऊसासमेत्तेणं ॥१॥ इत्यादि । इह चादिमङ्गलं द्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वात्तत्स्वरूपत्वादिति, मध्यमङ्गलं तु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात्, चरममङ्गलं तु भिक्ष्वध्ययनादि, भिक्षुगुणाद्यवलम्बनत्वादित्येवमध्ययनविभागतो मङ्गलत्रयविभागो निदर्शितः, अधुना सूत्रविभागेन निदर्श्यते- तत्र चादिमङ्गलं 'धम्मो मंगल' इत्यादिसूत्रम्, धर्मोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, मध्यममङ्गलं पुनः ‘णाणदसणे' त्यादि सूत्रम्, ज्ञानोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, अवसानमङ्गलं तु ‘णिक्खम्ममाणा इय' इत्यादि, भिक्षुगुणस्थिरीकरणार्थं विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च मङ्गलत्वादिति । आह- मङ्गलमिति कःशब्दार्थः?, उच्यते, 'अगिरगिलगिवगिमगीति' दण्डकधातुः, अस्य इदितो नुम् धातो (पा० ७-१-५८) रिति नुमि विहिते औणादिकालच्प्रत्ययान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति। मङ्गयते हितमनेनेति मङ्गलम्, मङ्गयते 0 यन्नैरयिकः कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥१॥ 0 मङ्गलस्वरूपत्वात् वि. प.1 0 ०करणभिक्षु. (प्र०)। SE:58000 For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy