SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम् ।। २७४।। दानार्थं प्रवृत्तव्यापारं संयतानामकल्पिकम, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। ४८॥ पञ्जचममध्ययन असणं ति सूत्रम्, एवं पुण्यार्थम्, पुण्यार्थं प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृतमिति । अत्राह-पुण्यार्थप्रकृत पिण्डैषणा, प्रथमोद्देशकः परित्यागे शिष्टकुलेषु वस्तुतो भिक्षाया अग्रहणमेव, शिष्टानां पुण्यार्थमेव पाकप्रवृत्तेः, तथाहि-न पितृकर्मादिव्यपोहेनात्मार्थ सूत्रम् ५५ मेव क्षुद्रसत्त्ववत्प्रवर्तन्ते शिष्टा इति, नैतदेवम्, अभिप्रायापरिज्ञानात्, स्वभोग्यातिरिक्तस्य देयस्यैव पुण्यार्थकृतस्य निषेधात्, औदेशिकादि दोषा:। स्वभृत्यभोग्यस्य पुनरुचितप्रमाणस्येत्वरयदृच्छादेयस्य कुशलप्रणिधानकृतस्याप्यनिषेधादिति, एतेनाऽदेयदानाभावः प्रत्युक्तः, देयस्यैव यदृच्छादानानुपपत्तेः, कदाचिदपि वा दाने यदृच्छादानोपपत्तेः, तथा व्यवहारदर्शनात्, अनीदृशस्यैव । प्रतिषेधात्, तदारम्भदोषेण योगात्, यदृच्छादाने तु तदभावेऽप्यारम्भप्रवृत्तेः नासौ तदर्थ इत्यारम्भदोषायोगात्, दृश्यते च । कदाचित्सूतकादाविव सर्वेभ्य एव प्रदानविकला शिष्टाभिमतानामपि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच्च तथाविधग्रहणान्न दोष इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्येति ।। ४९॥ तं भवेत्ति सूत्रम्, प्रतिषेधः पूर्ववत् ॥५०॥ असणं'ति सूत्रम्, एवं वनीपकार्थं वनीपका:- कृपणाः ॥५१॥ तं भवे' त्ति सूत्रम्, प्रतिषेधः पूर्ववत् ।। ५२ ।। 'असणं'ति सूत्रम्, एवं श्रमणार्थम्, श्रमणा-निर्ग्रन्थाः शाक्यादयः ॥ ५३॥ 'तं भवे' त्ति सूत्रम्, प्रतिषेधः पूर्ववत् ॥ ५४॥ उद्देसिअंकीअगडं, पूड़कम्मं च आहर्ड। अज्झोअर पामिच्चं, मीसजायं विवजए।। सूत्रम् ५५ ।। किंच-'उद्देसिति सूत्रम्, उद्दिश्य कृतमौदेशिकं- उद्दिष्टकृतकर्मादिभेदम्, क्रीतकृतं- द्रव्यभावक्रयक्रीतभेदं पूतिकर्मसंभाव्यमानाधाकर्मावयवसंमिश्रलक्षणम्, आहृतं- स्वग्रामाहृतादि, तथा अध्यवपूरक-स्वार्थमूलाद्रहणप्रक्षेपरूपम्, प्रामित्यंसाध्वर्थमुच्छिद्य दानलक्षणम्, मिश्रजातं च- आदित एव गृहिसंयतमिश्रोपस्कृतरूपम्, वर्जयेदिति सूत्रार्थः ।। ५५ ।। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy