SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारिo वृत्तियुतम् ।। २४९ ।। www.kobatirth.org तस्यैवं सम्यग् वीतरागोक्तेन विधिना भूतानि पृथिव्यादीनि पश्यतः सतः पिहिताश्रवस्य स्थगितप्राणातिपाताद्याश्रवस्य दान्तस्य इन्द्रियनोइन्द्रियदमेन पापं कर्म न बध्यते तस्य पापकर्मबन्धो न भवतीत्यर्थः ।। ९ ।। एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवतीति, ततश्च सर्वात्मना दयायामेव यतितव्यम्, अलं ज्ञानाभ्यासेनापि (नेति) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाह पढमं नाणं तदया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही, किं वा नाही छे अपावगं ? ।। १० ।। सोच्चा जाणइ कल्लाणं, सोच्चा जाणड़ पावगं । उभयंपि जाणए सोच्चा, जं छेयं तं समायरे ।। ११ ।। जो जीवेवि न याणेड़, अजीवे वि न वाणेड़। जीवाजीवे अयाणंतो, कह सो नाहीइ संजमं ।। १२ ॥ जो जीवेवि वियाणेड़, अजीवेवि वियाणेड़। जीवाजीवे वियाणतो, सो हु नाहीइ संजमं ।। १३ ।। पढमं णाण मित्यादि, प्रथमं आदौ ज्ञानं जीवस्वरूपसंरक्षणोपायफलविषयं ततः तथाविधज्ञानसमनन्तरं दया संयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, एवं अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति आस्ते सर्वसंयतः सर्वः प्रव्रजितः, यःपुनः अज्ञानी साध्योपायफलपरिज्ञानविकलः स किं करिष्यति ?, सर्वत्रान्धतुल्यत्वात्प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किंवा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालोचितं पापकं वा अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायनघुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तं - गीअत्थो अ विहारो बीओ गीअत्थमीसिओ भणिओ इत्यादि, अतो ज्ञानाभ्यासः कार्यः ।। १० ।। तथा चाह- सोच्चा इत्यादि, 'श्रुत्वा' आकर्ण्य ससाधनस्वरूपविपाकं जानाति ® गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो भणितः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चतुर्थमध्ययनं षड्जीव निकायम, सूत्रगाथा १०-१३ संयमार्थं ज्ञाना प्राधान्यम् । ।। २४९ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy