________________
Shri Ma
Mahavir Jain Aradhana Kendra
T
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। २४८ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम्प्रतमुपदेशाख्यः पञ्चम उच्यते- अजय मित्यादि, अयतं चरन् अयतं अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषणमेतत्, चरन्- गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घय, न त्वन्यथा, किमित्याह- प्राणिभूतानि हिनस्ति प्राणिनोद्वीन्द्रियादयः भूतानि - एकेन्द्रियास्तानि हिनस्ति प्रमादानाभोगाभ्यां व्यापादयतीति भावः, तानि च हिंसन् बध्नाति पापं कर्म अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, तत् से भवति कटुकफलं तत् पापं कर्म से तस्यायतचारिणो भवति, कटुकफलमित्यनुस्वारोऽलाक्षणिकः अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ।। १ ।। एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन्, शेषं पूर्ववत् ॥ २ ॥ एवमयतमासीनो- निषण्णतया अनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्ववत् ॥ ३ ॥ एवमयतं स्वपन्- असमाहितो दिवा प्रकामशय्यादिना (वा), शेषं पूर्ववत् ॥ ४ ॥ एवमयतं भुञ्जानोनिष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना (वा), शेषं पूर्ववत् ॥ ५ ॥ एवमयतं भाषमाणो गृहस्थभाषया निष्ठुरमन्तरभाषादिना(वा), शेषं पूर्ववत् ॥ ६ ॥ अत्राह- यद्येवं पापकर्मबन्धस्ततः कह चरे इत्यादि, कथं केन प्रकारेण चरेत्, कथं तिष्ठेत्, कथमासीत, कथं स्वपेत्, कथं भुञ्जानो भाषमाणः पापं कर्म न बध्नातीति ? || ७ || आचार्य आह- जयं चरे इत्यादि, यतं चरेत्सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेत् समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत उपयुक्त आकुञ्चनाद्यकरणेन, यतं स्वपेत्समहितो रात्री प्रकामशय्यादिपरिहारेण, यतं भुञ्जानः- सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना एवं यतं भाषमाणःसाधुभाषया मृदु कालप्राप्तं च पापं कर्म क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि, न बध्नाति नादत्ते, निराश्रवत्वात् विहितानुष्ठानपरत्वादिति ॥ ८ ॥ किंच- सव्वभूय इत्यादि, सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतो, य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, © प्रतिक्रमणं कृत्वा स्वाध्यायः ततः शयनं वि. प.
For Private and Personal Use Only
चतुर्थमध्ययनं षड्जीव
निकायम्, सूत्रगाथा १-९
अयतस्य कर्मबन्धः ।
।। २४८ ।।