________________
Shri Ma
Mahavir Jain Aradhana Kendra
श्रीदश
वैकालिकं
श्रीहारि० वृत्तियुतम्
।। २३९ ।।
www.kobatirth.org
द्वीपसमुद्रेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्यामिति । स्वरूपतोऽप्यस्य चातुर्विध्यम्, तद्यथा - रात्रौ गृह्णाति रात्रौ भुङ्क्ते १ रात्रौ गृह्णाति दिवा भुङ्क्ते २ दिवा गृह्णाति रात्रौ भुङ्क्ते ३ दिवा गृह्णाति दिवा भुङ्क्ते ४ संनिधिपरिभोगे, द्रव्यादिचतुर्भङ्गी पुनरियं दव्वओ णामेगे राई भुंजड़ णो भावओ १ भावओ णामेगे णो दव्वओ २ एगे दव्वओऽवि भावओऽवि ३ एगे णो दव्वओ णो भावओ ४, तत्थ अणुग्गए सूरिए उग्गओत्ति अत्थमिए वा अणत्थमिओत्ति अरत्तदुट्ठस्स कारण ओत्ति रयणीए वा भुंजमाणस्स दव्वओ राईभोअणं णो भावओ, रयणीए भुंजामि मुच्छियस्स तदसंपत्तीए भावओ णो दव्वओ, एवं चेव संपत्तीए दव्व ओऽवि भावओऽवि, चउत्थभंगो उण सुन्नो। एतच्च रात्रिभोजनं प्रथमचरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं महाव्रतोपरि पठितम्, मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ।। समस्तव्रताभ्युपगमख्यापनायाह- इच्चेयाई इत्यादि, 'इत्येतानि' अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह-आत्महिताय आत्महितो- मोक्षस्तदर्थम्, अनेनान्यार्थं तत्त्वतो व्रताभावमाह, तदभिलाषानुमत्या हिंसादावनुमत्यादिभावात् उपसंपद्य सामीप्येनाङ्गीकृत्य व्रतानि विहरामि सुसाधुविहारेण, तदभावे चाङ्गीकृतानामपि व्रतानामभावात्, दोषाश्च हिंसादिकर्तॄणामल्पायुर्जिह्वाच्छेददारिद्यपण्डकदुःखितत्वादयो वाच्या इति । साम्प्रतं प्रागुपन्यस्तगाथा व्याख्यायते'सप्तचत्वारिंशदधिकभङ्गशतं वक्ष्यमाणलक्षणं 'प्रत्याख्याने' प्रत्याख्यानविषयम्, यस्योपलब्धं भवति 'स' इत्थंभूतः प्रत्याख्याने कुशलो निपुणः, शेषाः सर्वे 'अकुशलाः ' तदनभिज्ञा इति गाथासमासार्थः । अवयवार्थस्तु भङ्गकयोजनाप्रधानः,
© द्रव्यतो नामैको रात्री भुङ्क्ते नो भावतः १ भावतो नामैको नो द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ एको नो द्रव्यतो नो भावतः ४ । तत्रानुगते सूर्ये उद्गत इति अस्तमिते वाऽनस्तमित इति अरक्तद्विष्टस्य कारणतो वा रात्रौ भुञ्जानस्य द्रव्यतो रात्रिभोजनं नो भावतः, रात्रौ भुजे इति मूर्च्छितस्य तदसंपत्तौ भावतो नो द्रव्यतः, एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि चतुर्थो भङ्गः पुनः शून्यः । नरेन्द्रत्वाद्यभिलाषहेतुना । दोषप्राप्त्यवगमात् । प्रथमव्रते त्रिविधं त्रिविधेनेत्यस्य व्याख्याने ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीवनिकायम्,
सूत्रम्
८-९
चारित्रधर्मे | पञ्चमहाव्रत स्वरूपम्।
।। २३९ ।।