________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीदश- वैकालिक श्रीहारि० वृत्तियुतम्
षड्जीवनिकायम,
॥
२७॥
भाष्यम६० त्रसाधिकारः।
एतेषामेव लक्षणमाह- येषां केषाश्चित्सामान्येनैव प्राणिनां- जीवानामभिक्रान्तं भवतीति वाक्यशेषः, अभिक्रमणमभिक्रान्तम्,
चतुर्थमध्ययन भावे निष्ठाप्रत्ययः, प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं प्रतिक्रमणं प्रतिक्रान्तं- प्रज्ञापकात्प्रतीपं क्रमणमिति भावः, संकुचनं संकुचितं- गात्रसंकोचकरणम्, प्रसारणं प्रसारितं- गात्रविततकरणम्, रवणं रुतं- शब्दकरणम्, भ्रमणं भ्रान्तं- इतश्वेतश्च ।
सूत्रम् गमनम्, त्रसनं त्रस्तं-दुःखादुद्वेजनम्, पलायनं पलायितं- कुतश्चिन्नाशनम्, तथाऽऽगतेः-कुतश्चित्क्वचित्, गतेश्च- कुतश्चित्क्वचिदेव, षड्जीवनिकाय: विण्णाया विज्ञातारः। आह- अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्भेद इति किमर्थं भेदेनाभिधानम्?, उच्यते, । विज्ञानविशेषख्यापनार्थम्, एतदुक्तं भवति- य एव विजानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न तु वृति प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति । आह- एवमपि द्वीन्द्रियादीनामत्रसत्वप्रसङ्गः, अभिक्रमणप्रतिक्रमणभावेऽप्येवंविज्ञानाभावात्, नैतदेवम्, हेतुसंज्ञाया अवगतेः, बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति तेषामभिक्रमणादिभावात्, न चैवं वल्ल्यादीनामभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति कृतं प्रसङ्गेन । अधिकृतत्रसभेदानाह-जे य इत्यादि, ये च। कीटपतङ्गा इत्यत्र कीटा:- कृमयः,- एकग्रहणे तज्जातीयग्रहण मिति द्वीन्द्रियाः शङ्खादयोऽपि गृह्यन्ते, पतङ्गाः- शलभा, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते, अत: एवाह- सर्वे द्वीन्द्रियाः- कृम्यादयः सर्वे त्रीन्द्रियाः- कुन्थ्वादयः, सर्वे चतुरिन्द्रियाः- पतङ्गादयः। आह- ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थं?, उच्यते, विचित्रा सूत्रगतिरतन्त्रः क्रम इति ज्ञापनार्थम्, सर्वे पश्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो- गवादयः, सर्वे नारका- रत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजाः- कर्मभूमिजादयः, सर्वे देवाभवनवास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एवैते त्रसा न त्वेकेन्द्रिया इव वसाः स्थावराश्चेति,
For Private and Personal Use Only