________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक
श्रीहारि० वृत्तियुतम्
।। २२६॥
अतिदेशमाह
चतुर्थमध्ययन भा०- सेसं सुत्तप्फासं काए काए अहक्कम बूया। अज्झयणत्था पंच य पगरणपयवंजणविसुद्धा ।। ६०॥
षड्जीव
निकायम्, शेष सूत्रस्पर्श उक्तलक्षणं काये काये पृथिव्यादौ यथाक्रमं यथापरिपाटि ब्रूयात् अनुयोगधर एव, न केवल सूत्रस्पर्शमेव, किंतु
सूत्रम् ? अध्ययनार्थान् पञ्च च- प्रागुपन्यस्तान् जीवाजीवाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान् ब्रूयात्, सूत्र एव जीवाभिगमः काये । घजीवनिकायः
भाष्यम् ६० काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहार्थाधिकारा इति । प्रक्रियन्तेऽर्था अस्मिन्निति प्रकरणं- अनेकार्था
त्रसाधिकारः। धिकारवत्कायप्रकरणादि, पदं सुबन्तादि, कादीनि व्यञ्जनानि, एभिर्विशुद्धान् ब्रूयादिति गाथार्थः ।। इदानीं त्रसाधिकार एतदाह- से जे पुण इमे इति, सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचन-- समुच्चयेष्विति वचनात्, अथ ये पुनरमी- बालादीनामपि प्रसिद्धा अनेके- द्वीन्द्रियादिभेदेन बहवः एकैकस्यां जातौ त्रसाः ।। प्राणिन:- त्रस्यन्तीति त्रसाः प्राणा- उच्छ्वासादय एषां विद्यन्त इति प्राणिनः, तद्यथा- अण्डजा इत्यादि, एष खलु षष्ठो । जीवनिकायः त्रसकाय इति प्रोच्यत इति योगः, तत्राण्डाजाता अण्डजा:- पक्षिगृहकोकिलादयः, पोता एव जायन्त इति । पोतजाः, अन्येष्वपि दृश्यते (पा०३-२-१०१) डप्रत्ययो जनेरिति वचनात् । ते च हस्तिवल्गुलीचर्मजलौकाप्रभृतयः, जरायुवेष्टिता जायन्त इति जरायुजा- गोमहिष्यजाविकमनुष्यादयः, अत्रापि पूर्ववड्डप्रत्ययः, रसाज्जाता रसजा:- तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजा- मत्कुणयूकाशतपदिकादयः, संमूर्च्छनाज्जाताः संमूर्छनजा:- शलभपिपीलिकामक्षिकाशालूकादयः, उद्भेदाज्जन्म येषां ते उद्भेदाः, अथवा उद्भेदनमुद्भित् उद्भिज्जन्म येषां ते । उद्भिज्जा:- पतङ्गखजरीटपारिप्लवादयः, उपपाताज्जाता उपपातजाः अथवा उपपाते भवा औपपातिका- देवा नारकाश्च ।
For Private and Personal Use Only