________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
॥२२५॥
चतुर्थमध्ययनं षड़जीवनिकायम, सूत्रम् षड़जीवनिकायः भाष्यम ५८-५९ मूलादि जीव स्वरूपम्।
पत्रे प्रथमतयेति-स एव प्रथमपत्रतयाऽपिपरिणमत इत्येकजीवकर्तृके मूलप्रथमपत्रे इति । आह-यद्येवं सव्वोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ' इत्यादि कथं न विरुध्यते इति?, उच्यते, इह बीजजीवोऽन्यो वा बीजमूलत्वेनोत्पद्य तदुच्छूनावस्थां करोति, ततस्तदनन्तरभाविनी किसलयावस्थां नियमेनानन्तजीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेष्वसावेव मूलजीवोऽनन्तजीवतर्नु परिणम्य(मय्य) स्वशरीरतया तावद्वर्धते यावत्प्रथमपत्रमिति न विरोधः । अन्ये तु व्याचक्षतेप्रथमपत्रकमिह याऽसौ बीजस्य समुच्छूनावस्था, नियमप्रदर्शनपरमेतत्, शेषं किसलयादिसकलं नावश्यं मूलजीवपरिणामाविर्भावितमिति मन्तव्यम्, ततश्च सव्वोऽवि किसलओखलु उग्गममाणो अणंतओ होइ'इत्याद्यप्यविरुद्धम्, मूलपत्रनिर्वर्तनारम्भकाले किसलयत्वाभावादिति गाथार्थः ।। एतदेवाह भाष्यकार:
भा०- विद्धत्थाविद्धत्था जोणी जीवाण होइ नायव्वा । तत्थ अविद्धत्थाए वक्कमई सोय अन्नो वा ।। ५८।। विध्वस्ताऽविध्वस्ता- अप्ररोहप्ररोहसमर्था योनिर्जीवानां भवति ज्ञातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स चान्यो वा, जीव इति गम्यत इति गाथार्थः॥
भा०- जो पुण मूले जीवो सो निव्वत्तेइ जा पढमपत्तं । कंदाइ जाव बीयं सेसं अन्ने पकुव्वंति ॥ ५९॥ यः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्वर्तयति यावत् प्रथमपत्रं तावदेक एवेति, अत्रापि भावार्थः पूर्ववदेव । कन्दादि । यावद्वीजं शेषमन्ये प्रकुर्वन्ति, वनस्पतिजीवा एव, व्याख्याद्वयपक्षेऽप्येतदविरोधि, एकतः समुच्छूनावस्थाया एव प्रथमपत्रतया । विवक्षितत्वात्तदनु कन्दादिभावतः अन्यत्र कन्दादेवनस्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थः। 0 सर्वोऽपि किशलयः खलु उद्गच्छन् अनन्तको भणितः ।
॥ २२५ ॥
For Private and Personal Use Only