SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड़जीव श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२२४।। षड़जीवनिकाय: स्वरूपम्। इत्यादि, तद्यथेत्युपन्यासार्थः, अग्रबीजा इति- अगं बीजं येषां ते अग्रबीजा:- कोरण्टकादय:- एवं मूलं बीजं येषां ते । चतुर्थमध्ययनं मूलबीजा- उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा- इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः- शल्लक्यादयः, तथा निकायम्, बीजाद्रोहन्तीति बीजरुहाः- शाल्यादयः, संमूर्च्छन्तीति संमूर्च्छिमाः- प्रसिद्धबीजाभावेन पृथिवीवर्षादिसमुद्भवास्तथाविधा सूत्रम् स्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेक नियुक्ति: २३२ भेदसंदर्शनार्थम्, वनस्पतिकायिकग्रहणं सूक्ष्मबादराद्यशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि स्वगताः भेदाः। मूलादि जीव पृथिवीशर्करादयः तथाऽवश्यायमिहिकादयस्तथा अङ्गारज्वालादयः, तथा झञ्झामण्डलिकादयो (भेदाः) सूचिता इति । सबीजाश्चित्तवन्त आख्याता इति, एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजा:- स्वस्वनिबन्धनाश्चित्तवन्त:- आत्मवन्त । आख्याताः कथिताः । एते च अनेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् । सबीजाश्चित्तवन्त आख्याता इत्युक्तम्, अत्र च। भवत्याशङ्का-किं बीजजीव एव मूलादिजीवो भवत्युतान्यस्तस्मिन्नुत्क्रान्ते उत्पद्यते इति?, अस्य व्यपोहायाह नि०- बीए जोणिब्भूए जीवो वुक्कमइ सो य अन्नो वा । जोऽवि य मूले जीवो सोऽविय पत्ते पढमयाए ।। २३२ ।। बीजे योनिभूते इति, बीजं हि द्विविधं भवति- योनिभूतमयोनिभूतं च, अविध्वस्तयोनि विध्वस्तयोनि च, प्ररोहसमर्थं । तदसमर्थं चेत्यर्थः । तत्र योनिभूतं सचेतनमचेतनंच, अयोनिभूतं तु नियमादचेतनमिति । तत्र बीजे योनिभूते इत्यनेनायोनिभूतस्य । व्यवच्छेदमाह, तत्रोत्पत्त्यसंभवाद्, अबीजत्वादित्यर्थः। योनिभूते तु-योन्यवस्थे बीजे, योनिपरिणाममत्यजतीत्युक्तं भवति, किमित्याह- जीवो व्युत्क्रामति- उत्पद्यते, स एव-पूर्वको बीजजीवः, बीजनामगोत्रे कर्मणी वेदयित्वा मूलादिनामगोत्रे चोपनिबद्ध्य, अन्यो वा पृथिवीकायिकादिजीव एवमेव, योऽपि च मूले जीव इति य एव मूलतया परिणमते जीवः सोऽपि च । For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy