SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Ma Mahavir Jain Aradhana Kendra 1 श्रीदश वैकालिकं श्रीहारि० वृत्तियुतम् ।। २२८ ।। www.kobatirth.org उक्तं च- पृथिव्यम्बुवनस्पतयः स्थावराः तेजोवायू द्वीन्द्रियादयश्च त्रसाः (तत्त्वा० अ० २ सू० १३-१४ ) इति । सर्वे प्राणिनः परमधर्माण इति सर्व एते प्राणिनो द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति अत्र परमं सुखं तद्धर्माण: सुखधर्माण:सुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेतेति योगः । षष्ठं जीवनिकायं निगमयन्नाह एष खलु- अनन्तरोदितः कीटादिः षष्ठो जीवनिकायः पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते प्रकर्षेणोच्यते सर्वैरेव तीर्थकरगणधरैरिति प्रयोगार्थः । प्रयोगश्च विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, घटवत् । आह- इदं त्रसकायनिगमनमनभिधाय अस्थाने 'सर्वे प्राणिनः परमधर्माण' इत्यनन्तरसूत्रसंबन्धिसूत्राभिधानं किमर्थं ?, उच्यते, निगमनसूत्रव्यवधानवदर्थान्तरेण व्यवधानख्यापनार्थम्, तथाहित्रसकायनिगमनसूत्रावसानो जीवाभिगमः, अत्रान्तरे अजीवाभिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मो वक्तव्यः, तथा च वृद्धव्याख्या- एसो खलु छट्टो जीवनिकाओ तसकाउत्ति पवुच्चइ, एस ते जीवाभिगमो भणिओ, इयाणि अजीवाभिगमो भण्णइ- अजीवा दुविहा, तंजहा पुग्गला य नोपोग्गला य, पोग्गला छव्विहा, तंजहा- सुहुमसुहुमा सुहुमा सुहुमबायरा बायरसुहुमा बायरा बायरबायरा । सुहुमसुहुमा परमाणुपोग्गला, सुहुमा दुपएसियाओ आढत्तो जाव सुहुमपरिणओ अनंतपएसिओ खंधो, सुहुमबायरा गंधपोग्गला, बायरसुहुमा वाउक्कायसरीरा, बादरा आउक्कायसरीरा उस्सादीणं, बायरबायरा © एष खलु षष्ठो जीवनिकायः त्रसकाय इति प्रोच्यते, एष तुभ्यं जीवाभिगमो भणितः, इदानीमजीवाभिगमो भण्यते- अजीवा द्विविधाः, तद्यथा- पुद्गलाश्च नोपुद्गलाश्च, पुद्गलाः षड्विधाः, तद्यथा सूक्ष्मसूक्ष्माः सूक्ष्माः सूक्ष्मबादरा बादरसूक्ष्मा बादरा बादरबादराः । सूक्ष्मसूक्ष्माः परमाणुपुद्गलाः, सूक्ष्मा द्विप्रदेशिकादारब्धो यावत्सूक्ष्मपरिणतोऽनन्तप्रदेशिकः स्कन्धः, सूक्ष्मबादरा गन्धपुद्गलाः, बादरसूक्ष्मा वायुकायशरीराणि, बादरा अप्कायशरीराणि अवश्यायादीनाम्, बादरबादरा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only चतुर्थमध्ययनं षड्जीव निकायम्, सूत्रम् १ षड्जीवनिकायः भाष्यम् ६० त्रसाधिकारः । ।। २२८ ।।
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy