________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SCHE8
षड्जीव
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२२२॥
षड़जीवनिकाय:
२३०-२३१ द्रव्यभावभेदपृथिव्यादीनां शस्त्रम्।
ग्राहकत्वात् त्रसकायिकानामिति । विप्रतिपत्तिनिरासार्थं पुनराह- पुढवी चित्तमंतमक्खाया 'पृथिवी' उक्तलक्षणा 'चित्तवती'ति 8 चतुर्थमध्ययन चित्तं- जीवलक्षणं तदस्या अस्तीति चित्तवती- सजीवेत्यर्थः, पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया' अत्र मात्रशब्दः
निकायम्, स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्च चित्तमात्रास्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात्सर्वजघन्यं चैतन्य
सूत्रम् मेकेन्द्रियाणाम्, तदभ्यधिकं द्वीन्द्रियादीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च अनेकजीवा अनेके जीवा यस्यां
नियुक्तिः साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां 'पृथिवी देवते' त्येवमादिवचनप्रामाण्यादिति । अनेकजीवाऽपि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेके- एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्॥१॥ अत आह-पृथक्सत्वा पृथग्भूताः सत्त्वा- आत्मानो यस्यां सा पृथक्सत्त्वा, अङ्गलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः। आह- यद्येवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुच्चारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्यत्राह- अन्यत्र शस्त्रपरिणतायाः शस्त्रपरिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः। अथ किमिदं पृथिव्याः शस्त्रमिति शस्त्रप्रस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्नं शस्त्रमभिधित्सुराह
नि०- दव्वं सत्थग्गिविसंनेहंबिल खारलोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अविरई अ।। २३० ।। द्रव्य मिति द्वारपरामर्शः, तत्र द्रव्यशस्त्रं खङ्गादि, अग्निविषस्नेहाम्लानि प्रसिद्धानि, क्षारलवणादीनि अत्र तु क्षार:- करीरादिप्रभवः, लवणं-प्रतीतम्, आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशस्त्रम्, अधुना भावशस्त्रमाह- भावस्तु दुष्प्रयुक्तौ वाक्कायौ । अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्प्रयुक्त इत्यनेन द्रोहाभिमानेादिलक्षणो मनोदुष्प्रयोगो गृह्यते, वाग्दुष्प्रयोगस्तु हिंस्रपरुषादिवचनलक्षणः, कायदुष्प्रयोगस्तू धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवत्तिः.
For Private and Personal Use Only