________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ||२२१ ।।
चतुर्थमध्ययनं षड़जीवनिकायम्, सूत्रम् १ घजीवनिकायः स्थावरत्रसानांभेदाः।
इत्याह-अध्ययनं धर्मप्रज्ञप्तिः निमित्तकारणहेतुषु सर्वासांप्रायो दर्शन मिति वचनात् हेतौ प्रथमा, अध्ययनत्वाद्-अध्यात्मानयनाच्चेतसो विशुद्ध्यापादनादित्यर्थः, एतदेव कुत इत्याह- धर्मप्रज्ञप्तेः प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिः, ततो धर्मप्रज्ञप्तेः कारणाच्चेतसो विशुद्ध्यापादनं चेतसो विशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति । अन्ये तु व्याचक्षते अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतयाऽनुवादमात्रमेतदिति ।। शिष्यः पृच्छति-कतरा खल्वि त्यादि, सूत्रमुक्तार्थमेव, अनेनैतदर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह- इमा खल्वि त्यादि सूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति। तंजहा- पुढविकाइया इत्यादि, अत्र तद्यथे' त्युदाहरणोपन्यासार्थः, पृथिवी- काठिन्यादिलक्षणा प्रतीता सैव कायः- शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थिकष्ठक्, आपो-द्रवाः प्रतीता एव ता एव काय:- शरीरं येषां तेऽप्कायाः, अप्काया एव अप्कायिकाः। तेज- उष्णलक्षणं प्रतीतं तदेव काय:- शरीरं येषां ते तेजःकायाः, तेजःकाया एव तेजःकायिकाः। वायु:- चलनधर्मा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकायाः, वायुकाया एव वायुकायिकाः । वनस्पति:- लतादिरूपः प्रतीतः, स एव काय:शरीरं येषां ते वनस्पतिकायाः, वनस्पतिकाया एव वनस्पतिकायिकाः । एवं त्रसनशीलास्त्रसाः- प्रतीता एव, त्रसा:काया:शरीराणि येषां ते त्रसकायाः, त्रसकाया एव त्रसकायिकाः । इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानम्, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानामपि, तदनन्तरं तत्प्रतिपक्षत्वात्तेजस्कायिकानाम्, तदनन्तरं तेजस उपष्टम्भकत्वाद्वायुकायिकानाम, तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वादनस्पतिकायिकानाम, तदनन्तरं वनस्पतेस्त्रसोपOविभक्तीनाम्।
For Private and Personal Use Only