________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ।। २२०॥
षड्जीवनिकायम,
स्थावरत्रसानां भेदाः।
अत्तागमो कह णु॥१॥अथवा 'आवसंतेणं ति गुरुमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्यमित्येतदाह, चतुर्थमध्ययन ज्ञानादिवृद्धिसद्भावाद्, उक्तं च-णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥ अथवा 'आमुसंतेणं' आमृशता भगवत्पादारविन्दयुगलमुत्तमाङ्गेन, अनेन च विनयप्रतिपत्तेर्गरीयस्त्वमाह, विनयस्य
सूत्रम् १ मोक्षमूलत्वात्, उक्तं च- मूलं संसारस्सा होंति कसाया अणंतपत्तस्स । विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ॥१॥ कृतं । षड्जीवनिकायः प्रसङ्गेन, प्रकृतं प्रस्तुम:- तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह-एषा षड्जीवनिकायिका केन प्रवेदिता प्ररूपिता वेति?, अत्रोच्यते, तेनैव भगवता, यत आह- समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ते ति, सा च तेन श्रमणेन महातपस्विना भगवता समग्रैश्वर्यादियुक्तेन महावीरेण शूर वीरविक्रान्ता' विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, उक्तं च- विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥ महांश्चासौ वीरश्च महावीरस्तेन महावीरेण, काश्यपेने ति काश्यपसगोत्रेण, प्रवेदिता नान्यतः कुतश्विदाकर्ण्य ज्ञाता किं तर्हि?, स्वयमेव केवलालोकेन प्रकर्षण वेदिता प्रवेदिता-विज्ञातेत्यर्थः, तथा स्वाख्याते ति सदेवमनुष्यासुरायां पर्षदि सुष्ठु आख्याता स्वाख्याता, तथा सुप्रज्ञप्ते ति सुष्टु प्रज्ञप्ता यथैवाख्याता तथैव सुष्ठु- सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड्जीवनिकायिका श्रेयो मेऽध्येतुं श्रेयः- पथ्यं हितम्, ममेत्यात्मनिर्देशः, छान्दसत्वात्सामान्येन ममेत्यात्मनिर्देश इत्यन्ये, ततश्च श्रेय आत्मनोऽध्ये तुम्,'अध्येतु'मिति पठितुं श्रोतु भावयितुम्, कुत ॥ २२० ।। 1- शास्त्रमात्मागमः (आमागमः) कथं नु? ॥१॥ ॐ ज्ञानस्य भागी भवति स्थिरतरः दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ।। १।। 0 मूलं संसारस्य भवन्ति कषाया अनन्तपत्रस्य । विनय: स्थानप्रयुक्तो दुःखविमुक्तस्य मोक्षस्य ॥१॥ 0 आत्मार्थः ।
For Private and Personal Use Only