SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।।२१५॥ चतुर्थमध्ययन षड्जीवनिकायम्, सूत्रम् पजीवनिकाय: भाष्यम् ५५-५६ साफल्यद्वारपरिमाणद्वार इति दर्शितम्। आह- अस्मिन् द्वारे सति अमयो न तु मृन्मय इव घट इति प्राक्किमर्थमुक्तमिति, उच्यते, अत एव द्वारादनुग्रहार्थमुक्तमिति लक्ष्यते, भवति चासकृच्छ्रवणादकृच्छ्रेण परिज्ञानमित्यनुग्रहः, अतिगम्भीरत्वाद्भाष्यकाराभिप्रायस्य न (वा) वयमभिप्राय विद्म इति ।अन्ये त्वभिदधति-अन्यकर्तृकैवासौ गाथेति गाथार्थः।। व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारम्, अधुना साफल्यद्वारावसरः, तथा चाह भाष्यकार: भा०-साफल्लदारमहुणा निच्चानिञ्चपरिणामिजीवम्मि। होइ तयं कम्माणं इहरेगसभावओऽजुत्तं ।। ५५ ।। साफल्यद्वारमधुना- तदेतद्व्याख्यायते, नित्यानित्य एव परिणामिनि जीव इति योगः, भवति तत् साफल्यं कालान्तरफलप्रदानलक्षणम्, केषामित्याह- कर्मणां- कुशलाकुशलानाम्, कालभेदेन कर्तृभोक्तृपरिणामभेदे सत्यात्मनस्तदुभयोपपत्तेः कर्मणां कालान्तरफलप्रदानमिति, इतरथा पुनर्यद्येवं नाभ्युपगम्यते तत एकस्वभावत्वतः कारणादयुक्तं 'तत्' कर्मणां साफल्यमिति, एतदुक्तं भवति- यदि नित्य आत्मा कर्तृस्वभाव एव कुतोऽस्य भोगः?, भोक्तृस्वभावत्वे चाकर्तृत्वम्, क्षणिकस्य तु कालद्वयाभावादेवैतदुभयमनुपपन्नम्, उभये च सति कालान्तरफलप्रदानेन कर्म सफलमिति गाथार्थः ।। द्वितीयमलद्वारगाथायां व्याख्यातं साफल्यद्वारम्, अधुना परिमाणद्वारमाह भा०- जीवस्स उ परिमाणं वित्थरओ जाव लोगमेत्तं तु । ओगाहणा य सुहमा तस्स पएसा असंखेजा।॥५६॥ । जीवस्य तु परिमाणं विततस्य विस्तरतो विस्तरेण यावल्लोकमात्रमेव, एतच्च केवलिसमुद्धातचतुर्थसमये भवति, तत्रावगाहना च सूक्ष्मा विततैकैकप्रदेशरूपा भवति, तस्य जीवस्य प्रदेशाश्चासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः ।। 0भाष्यगाथा ४९ अन्त्यभागः। For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy