SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ।। २१४॥ परिमितदेशे लिङ्गोपलब्धेः, अग्न्योष्ण्यवत् इति गाथार्थः । व्याख्याता प्रथमा मूलद्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते- चतुर्थमध्ययनं तत्र प्रथमं गुणीत्याद्यद्वारम्, तद्व्याचिख्यासयाऽऽह भाष्यकार: षड्जीव निकायम्, भा०- अहुणा गुणित्ति दारं होइ गुणेहिं गुणित्ति विन्नेओ। ते भोगजोगउवओगमाइ रुवाइ व घडस्स ।। ५२।। सूत्रम् अधुना गुणीति द्वारं- तदेतद्व्याख्यायते, भवति गुणैर्हि गुणी, न तद्व्यतिरेकेण 'इति' एवं विज्ञेयः, अनेन गुणगुणिनो षड्जीवनिकाय: भाष्यम् र्भेदाभेदमाह, ते भोगयोगोपयोगादयो गुणा इति, आदिशब्दादमूर्तत्वादिपरिग्रहः, निदर्शनमाह- रूपादय इव घटस्य गुणा ५२-५३ इति गाथार्थः ।। व्याख्यातं मूलद्वारगाथायां गुणिद्वारम्, अधुनोर्ध्वगतिद्वारावसर इत्याह भाष्यकार: देहव्यापित्वं गुणीद्वार भा०- उटुंगइत्ति अहुणा अगुरुलहुत्ता सभावउड्डगई। दिटुंतलाउएणं एरंडफलाइएहिं च ।। ५३॥ उर्ध्वगतिद्वार ऊर्ध्वगतिरित्यधुना द्वारं- तदेतद्व्याख्यायते, अगुरुलघुत्वात्कारणात्स्वभावतः कर्मविप्रमुक्तः सन्नूर्ध्वगति: जीव इति गम्यते, यद्येवं तर्हि कथमधो गच्छति?, अत्राह- दृष्टान्तःअलाबुना तुम्बकेन, यथा तत्स्वभावत ऊर्ध्वगमनरूपमपि मृल्लेपाजलेऽधो गच्छति तदपगमादूर्ध्वमा जलान्ताद्, एवमात्माऽपि कर्मलेपादधोगच्छति तदपगमादूर्ध्वमा लोकान्तादिति । एरण्डफलादिभिश्च दृष्टान्त इति, अनेन दृष्टान्तबाहुल्यं दर्शयति, यथा चैरण्डफलमपि बन्धनपरिभ्रष्टमूर्ध्वं गच्छति, आदिशब्दादग्न्यादिपरिग्रह । इति गाथार्थः ।। व्याख्यातं द्वितीयमूलद्वारगाथायामूर्ध्वगतिद्वारम्, साम्प्रतं निर्मयद्वारव्याचिख्यासयाऽऽह भा० - अमओय होइ जीवो कारणविरहा जहेव आगासं । समयं च होअनिच्चं मिम्मयघडतंतुमाईयं ।। ५४।। अमयश्च भवति जीवः, न किम्मयोऽपीत्यर्थः, कुत इत्याह- कारणविरहात् अकारणत्वात्, यथैवाकाशं- आकाशवदित्यर्थः, समयं च वस्तु भवत्यनित्यम्, एतदेव दर्शयति- मृन्मयघटतन्त्वादि, यथा मृन्मयो घटस्तन्तुमयः पट इत्यादि, न पुनरात्मा, नित्य भाष्यम्५४ निर्मबद्वारम्। || २१४॥ For Private and Personal Use Only
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy