________________
Shri Mahavir Jain Aradhana Kendra
www kabarth.org
Acharya Shri Kailassagarsun Gyanmandit
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
सूत्रम् १ षड़जीवनिकायः भाष्यम्५०
जीवकर्तृत्वद्वारम्। भाष्यम५१
स्वकर्मफलभोजना दिति स्वोपात्तकर्मफलभोगादित्यर्थः, उपस्थानादेतन्न भिद्यत इति चेन्न, अभिप्रायापरिज्ञानात्, तत्र हि चतुर्थमध्ययन येन कृतं तस्मिन्नेव कर्तरि कर्मोपतिष्ठत इत्युक्तं तच्चैकस्मिन्नपि जन्मनि संभवति, इदं त्वन्यजन्मान्तरापेक्षयाऽपि गृहात इति न ।
षड्जीव
निकायम, दोषः। तथा अमूर्तत्वादिति मूर्तिरहितत्वाद्, एतदपि श्रोत्रादिभिरग्रहणादित्यस्मान्न भिद्यत इति चेन्न, तत्र हि श्रोत्रादिभिर्न गृह्यते इत्येतदुक्तम्, इह तु तत्स्वरूपमेव नियम्यते इति, मूर्ताणूनामपि श्रोत्रादिभिरग्रहणादिति । द्वारत्रयमप्युपसंहरन्नाहजीवस्य सिद्धमेवं नित्यत्वममूर्तत्वमन्यत्वमिति गाथार्थः ।। मूलद्वारगाथाद्वये व्याख्यातमन्यत्वादिद्वारत्रयम्, इदानीं कर्तृता
नियुक्ति २२७ रावसरः, तथा चाह
भा०- कत्तत्ति दारमहुणा सकम्म्फलभोइणोजओ जीवा । वाणियकिसीवला इव कविलमयनिसेहणं एवं ॥५०॥ ___ कर्तेति द्वारमधुना- तदेतव्याख्यायते, स्वकर्मफलभोगिनो यतो जीवास्तत: कर्तार इति, वणिकृषीवलादय इव, न हामी अकृतमु- देहव्यापित्वं पभुञ्जते इति प्रयोगार्थः, प्रयोगस्तु- कर्ताऽऽत्मा, स्वकर्मफलभोक्तृत्वात्, कर्षकादिवत् । ऐदम्पर्यमाह- कपिलमतनिषेधनमेतत् |
गुणीद्वार सांख्यमतनिराकरणमेतत्, तत्राकर्तृवादप्रसिद्धेरिति गाथार्थः ॥ मूलद्वारगाथाद्वये व्याख्यातं कर्तृद्वारम्, इदानीं देहव्यापित्वद्वारावसर इत्याह भाष्यकार:
भा०-वावित्ति दारमहुणा देहव्वावी मओऽग्गिउण्हं व । जीवो नउ सव्वगओ देहे लिंगोवलंभाओ॥५१॥ व्यापीति द्वारमधुना- तदेतद्व्याख्यायते, देहव्यापी शरीरमानं व्याप्तुं शीलमस्येति तथा मत इष्टः प्रवचनज्ञैः जीवो, नतु सर्वग २१३ इति योगः, तुशब्दस्यावधारणार्थत्वान्न चाण्वादिमात्रः, कुत इत्याह- देहे लिङ्गोपलम्भात् शरीर एव सुखादितल्लिङ्गोपलब्धेः, अग्न्यौष्ण्यवत्, उष्णत्वं ह्यग्निलिङ्ग नान्यत्राग्नेः न च नानाविति (गाथा)प्रयोगार्थः । प्रयोगस्तु- शरीरनियतदेश आत्मा,
उर्ध्वगतिद्वार
For Private and Personal Use Only