________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२१२॥
तथा स्तनाभिलाषादिति, तदहर्जातबालकस्यापि स्तनाभिलाषदर्शनात्, न चान्यकालाननुभूतस्तनपानस्यायमुपपद्यते, प्रयोगश्च- तदहर्जातबालकस्याऽऽद्यस्तनाभिलाषोऽभिलाषान्तरपूर्वकः, अभिलाषत्वाद्, तदन्यस्तनाभिलाषवत्, तद्वदप्रथमत्वसाधनाद् विरुद्धो हेतुरिति चेन्न, प्रथमत्वानुभवेन बाधनात्, 'असति च बाधने विरुद्ध' इति न्यायाद्, अन्यथा हेतूच्छेदप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति । नित्यादिक्रियायोजना पूर्ववदिति नियुक्तिगाथार्थः । एतामेव नियुक्तिगाथां लेशतो व्याचिख्यासुराह भाष्यकार:
भा० - रोगस्सामयसन्ना बालकयं जं जुवाऽणुसंभरइ । जं कयमन्नंमि भवे तस्सेवन्नत्थुवत्थाणा ।। ४८ ।। रोगस्यामय इति संज्ञा, बालकृतं किमपि वस्तु यद्' यस्माधुवाऽनुस्मरति, तथा यत्कृतमन्यस्मिन् भवे- कुशलाकुशलं कर्म तस्यैव-कर्मणोऽन्यत्र- भवान्तरे उपस्थानात, सर्वत्र भावार्थयोजना कृतैवेति गाथार्थः।।।
भा०- णिचो अणिदियत्ता खणिओनवि होइ जाइसंभरणा। थणअभिलासा यतहा अमओ नउ मिम्मउव्व घडो॥ ४९।। नित्य इति, सर्वत्र क्रियाभिसंबध्यते, अतीन्द्रियत्वात्-श्रोत्रादिभिरग्रहणादित्यर्थः, विज्ञेयो ज्ञातव्यः । तथा च जातिस्मरणात्, पाठान्तरं वा क्षणिको न भवति जातिस्मरणादिति, एतदप्यदुष्टमेव, विधिप्रतिषेधाभ्यां साध्यार्थाभिधानात्, स्तनाभिलाषाच्च, तथा अमयोऽयमात्मा, नतु मृन्मय इव घटः, ततश्चाकारण इत्यर्थः। एतदपि नित्यत्वादिप्रसाधकमिति नियुक्तिगाथायामनुपन्यस्तमप्युक्तं सूक्ष्मधिया भाष्यकारेणेति गाथार्थः । तृतीयां नियुक्तिगाथामाह
नि०- सव्वन्नुवदिट्ठत्ता सकम्मफलभोयणा अमुत्तत्ता। जीवस्स सिद्धमेवं निच्चत्तममुत्तमन्नत्तं ।। २२७ ।। सर्वज्ञोपदिष्टत्वा दिति नित्यो जीव इति सर्वज्ञोक्तत्वात्, अवितथं च सर्वज्ञवचनम्, तस्य रागादिरहितत्वादिति । तथा
चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् पजीवनिकायः भाष्यम् ४८-४९ जीवनित्यत्वसिद्धि। नियुक्ति २२७ जीवकर्तृत्वद्वारम्।
॥ २१२॥
For Private and Personal Use Only