________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। २०७ ।।
www.kobatirth.org
खलुशब्दः विशेषणार्थत्वात्कथञ्चिद्देहेन्द्रियातिरिक्त आत्मेति प्रतिज्ञार्थ:, तदुपलब्धार्थाना मिति संभवत: परामर्शत्वात् इन्द्रियोपलब्धार्थानां तद्विगमेऽपि इन्द्रियविगमेऽपि स्मरणादिति हेत्वर्थः, स्मरन्ति चान्धबधिरादयः पूर्वानुभूतं रूपादीति, गेहगवाक्षैः पुरुषवदिति दृष्टान्तः । प्रयोगस्तु- कथञ्चिद्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवदिति गाथार्थः ।। इन्द्रियोपलब्धिमत्त्वाशङ्कापोहायाह
भा०- न उ इंदियाई उवलद्धिमंति विगएसु विसयसंभरणा । जह गेहगवक्खेहिं जो अणुसरिया स उवलद्धा ।। ३९ ।। न पुनरिन्द्रियाण्येवोपलब्धिमन्ति- द्रष्टृणि, कुत इत्याह- विगतेष्विन्द्रियेषु विषयसंस्मरणात् तद्गृहीतरूपाद्यनुस्मृतेरन्धबधिरादीनामिति, निदर्शनमाह- यथा गेहगवाक्षैः करणभूतैः दृष्टानर्थाननुस्मरन् योऽनुस्मर्ता स उपलब्धा, न तु गवाक्षाः, एवमत्रापीति गाथार्थः । उक्तमेकेन प्रकारेणान्यत्वद्वारम् अधुना अमूर्तद्वारावसर इत्याह भाष्यकार:
भा०- संपयममुत्तदारं अइंदियत्ता अछेयभेयत्ता। रूवाइविरहओ वा अणाइपरिणामभावाओ ॥ ४० ॥ साम्प्रतममूर्तद्वारम्, तद्व्याख्यायते, अमूर्तो जीवः, अतीन्द्रियत्वात् द्रव्येन्द्रियाग्राह्यत्वात्, अच्छेद्याभेद्यत्वात् खड्गशूलादिना, रूपादिविरहतश्च- अरूपत्वादित्यर्थः । तथा अनादिपरिणामभावा दिति स्वभावतोऽनाद्यमूर्तपरिणामत्वादिति गाथार्थः ।।
Acharya Shri Kailassagarsuri Gyanmandir
भा०- छउमत्थाणुवलंभा तहेव सवन्नुवयणओ चेव । लोयाइपसिद्धीओ जीवोऽमुत्तो त्ति नायव्वो ।। ४१ ।।
छद्मस्थानुपलम्भाद् अवधिज्ञानिप्रभृतिभिरपि साक्षादगृह्यमाणत्वात्, तथैव सर्वज्ञवचनाच्चैव सत्यवक्तृवीतरागवचनादित्यर्थः, लोकादिप्रसिद्धेः लोकादावमूर्तत्वेन प्रसिद्धत्वात्, आदिशब्दाद्वेदसमयपरिग्रहः, अमूर्तो जीव इति ज्ञातव्यः, सर्वत्रैवेयं प्रतिज्ञेति गाथार्थः । उक्तममूर्तद्वारम्, अधुना नित्यत्वद्वारप्रस्ताव:, तथा चाह भाष्यकार:
For Private and Personal Use Only
चतुर्थमध्ययनं षड्जीवनिकायम्,
सूत्रम् १
षड्जीवनिकायः
भाष्यम् ३९-४१ अन्यत्वादि
द्वारत्रयम्।
।। २०७ ।।