SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। २०६ ।। www.kobatirth.org नि०- कारणविभागकारणविणासबंधस्स पच्चयाभावा। विरुद्धस्स य अत्थस्सापाउन्भावाविणासा य ।। २२५ ।। कारणविभागकारणविनाशबन्धस्य प्रत्ययाभावा दिति अत्राभावशब्दः प्रत्येकमभिसंबध्यते, कारणविभागाभावात् न खलु जीवस्य पटादेरिव तन्त्वादिकारणविभागोऽस्ति, कारणाभावादेव । एवं कारणविनाशाभावेऽपि योज्यम्, तथा बन्धस्यज्ञानावरणादिपुद्गलयोगलक्षणस्य प्रत्ययाभावात्- हेतुत्वानुपपत्तेः, बन्धस्येति बध्यमानव्यतिरिक्तबन्धज्ञापनार्थमसमासः, व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्शनार्थमिति, तथा विरुद्धस्य चार्थस्य पटादिनाशे भस्मादेरिव अप्रादुर्भावादविनाशाच अप्रादुर्भावेऽनुत्पत्तौ सत्यामविनाशाच्च हेतोः जीवस्य नित्यत्वम्, नित्यत्वादमूर्तत्वम्, अमूर्तत्वाच्च देहादन्यत्वमिति प्रतिपत्त्यानुगुण्यतो व्यत्ययेन साध्यनिर्देशः । वक्ष्यति च नियुक्तिकार:- 'जीवस्स सिद्धमेवं, निच्चत्तममुत्तमन्नत्तं' इति गाथासमासार्थः । व्यासार्थस्तु भाष्यादवसेयः, तत्राव्युत्पन्नविनेयासंमोहनिमित्तं यथोपन्यासं तावद्वाराणि व्याख्याय पश्चान्निर्युक्तिकाराभिप्रायेण मीलयिष्यतीत्यत आह भा०- अन्नत्ति दारमहुणा अन्नो देहा गिहाउ पुरिसो व्व । तज्जीवतस्सरीरियमयघायत्थं इमं भणियं ।। ३७ ।। अन्यो देहादिति द्वारमधुना, तदेतद्व्याख्यायते - अन्यो देहातु, जीव इति गम्यते, गृहादिगतपुरुषवदिति दृष्टान्तः, तद्भावेऽपि तत्रानियमतो भावादिति हेतुरभ्यूह्यः, न चासिद्धोऽयम्, मृतदेहेऽदर्शनात्, प्रयोगफलमाह - तज्जीवतच्छरीरवादिमतविघातार्थम्, इदं प्रयोगरूपं भणितमिति गाथार्थः । प्रयोगान्तरमाह भा०- देहिंदियाइरित्तो आया खलु तदुवलद्ध अत्थाणं । तव्विगमेऽवि सरणओ गेहगवक्खेहिं पुरिसो व्व ।। ३८ ।। © नियुक्तिमूलद्वारापेक्षया संगृहीतार्थवाचका गाथा निर्युक्तिः, तस्याश्च यद्विवरणं तद्भाष्यम्, कर्त्ता त्वनयोरेक एवोभयोरपीति वि० प. । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चतुर्थमध्ययनं षड्जीव निकायम्, सूत्रम् ? षड्जीवनिकायः भाष्यम् | ३७-३८ नियुक्तिः २२५ अन्यत्वादिद्वारत्रयम्। ॥ २०६ ॥
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy