________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
।। २०५ ।।
www.kobatirth.org
स्पर्शेन शीतादिना यथा वायुर्गृह्यते कायसंसृतो देहसंगतः अदृष्टोऽपि, तथा ज्ञानादिभिः ज्ञानदर्शनेच्छादिभिर्जीवो गृह्यते 'कायसंसृतो' देहसंगत इति गाथार्थ: ।। असकृदनुमानादस्तित्वमुक्तं जीवस्य, अनुमानं च प्रत्यक्षपूर्वकम्, न चैनं केचन पश्यन्तीति, ततश्चाशोभनमेतदित्याशङ्कयाह
भा०- अणिदियगुणं जीवं, दुन्नेयं मंसचक्खुणा । सिद्धा पासंति सव्वन्नू, नाणसिद्धा य साहुणो ।। ३४ ।।
अनिन्द्रियगुणं अविद्यमानरूपादीन्द्रियग्राह्यगुणं जीवं अमूर्तत्वादिधर्मकं दुर्ज्ञेयं दुर्लक्षं मांसचक्षुषा छद्मस्थेन, पश्यन्ति सिद्धाः सर्वज्ञाः, अञ्जनसिद्धादिव्यवच्छेदार्थं सर्वज्ञग्रहणम्, ततश्च ऋषभादय इत्यर्थः, ज्ञानसिद्धाश्च साधवो भवस्थकेवलिन इति गाथार्थः । साम्प्रतमागमादस्तित्वमाह
भा०- अत्तवयणं तु सत्थं दिट्ठा य तओ अइंदियाणंपि। सिद्धी गहणाईणं तहेव जीवस्स विन्नेया ।। ३५ ।।
आप्तवचनं तु शास्त्रम्, आप्तो- रागादिरहितः, तुशब्दोऽवधारणे, आप्तवचनमेव, अनेनापौरुषेयव्यवच्छेदमाह, तस्यासंभवादिति । दृष्टा च तत इति उपलब्धा च ततः- आप्तवचनशास्त्रात् अतीन्द्रियाणामपि इन्द्रियगोचरातिक्रान्तानामपि, सिद्धिः ग्रहणादीना मिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थः, तथैव जीवस्य विज्ञेयेति, अतीन्द्रियस्याप्याप्तवचनप्रामाण्यादिति गाथार्थः । मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारम्, अधुनाऽन्यत्वादिद्वारत्रयव्याचिख्यासुराह
भा०- अण्णत्तममुत्तत्तं निञ्चत्तं चेव भण्णए समयं । कारण अविभागाईहेऊहिं इमाहिं गाहाहिं ।। ३६ ।। अन्यत्वं देहाद् अमूर्तत्वं स्वरूपेण नित्यत्वं चैव परिणामिनित्यत्वं भण्यते समकं एकैकेन हेतुना त्रितयमपि युगपदितिएककालमित्यर्थः, कारणाविभागादिभिः वक्ष्यमाणलक्षणैर्हेतुभिः इमाभिः तिसृभिर्निर्युक्तिगाथाभिरेवेति गाथार्थः ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीवनिकायम्,
सूत्रम् १
षड्जीवनिकायः
भाष्यम भाष्यम् | ३४-३६ जीवसिद्धिः जीवास्तित्वं
च।
।। २०५ ।।