SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् ।। २०४ ।। www.kobatirth.org गाथार्थः । एतदेव व्याचष्टे भा०- लोगे अच्छेज्जभेजो वेए सपुरीसदद्भगसियालो। समएजहमासि गओ तिविहो दिव्वाइसंसारो ।। ३१ ।। लोकेऽच्छेद्योऽभेद्य आत्मा पठ्यते, यथोक्तं गीतासु- अच्छेद्यो ऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः संततगः स्थाणुरचलोऽयं सनातनः ।। १ ।। इत्यादि । तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति, यथोक्तं शृगालो वै एष जायते यः सपुरीषो दह्यते, अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुर्भवन्ति इत्यादि । तथा समये अहमासीद्गजः इति पठ्यते, तथा च बुद्धवचनं- अहमासं भिक्षवो हस्ती, षड्दन्तः शङ्खसंनिभः । शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः ॥ १ ॥ इत्यादि । तथा त्रिविधो दिव्यादिसंसार: कैश्चिदिष्यते, देवमानुषतिर्यग्भेदेन, आदिशब्दाच्चतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थः । अत्रैव प्रकारान्तरेण तदस्तित्व माह भा०- अत्थि सरीरविहाया पइनिययागारया भावाओ। कुंभस्स जह कुलालो सो मुत्तो कम्मजोगाओ ।। ३२ ।। अस्ति शरीरस्य-औदारिकादेर्विधाता, विधातेति कर्ता, कुत इत्याह- प्रतिनियताकारादिसद्भावात् आदिमत्प्रतिनियताकारत्वादित्यर्थः, दृष्टान्तमाह- कुम्भस्य यथा कुलालो विधाता । कुलालवदेवमसावपि मूर्तः प्राप्नोतीति विरुद्धमाशङ्कय परिहरन्नाह'स' आत्मा यः शरीरविधाता असौ मूर्तः कर्मयोगा दिति मूर्तकर्मसंबन्धादिति गाथार्थः । अत्रैव शिष्यव्युत्पत्तयेऽन्यथा तगृहणविधिमाह भा०-फरिसेण जहा वाऊ, गिज्झई कायसंसिओ। नाणाईहिं तहा जीवो, गिज्झई कायसंसिओ ।। ३३ ।। © आयहिमासंगज इति । अहंति (प्र०) । क्षुधा रहिता इति वि० प०। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चतुर्थमध्ययनं षड्जीव निकायम्, सूत्रम् १ षड्जीवनिकाय भाष्यम् ३१-३३ जीवसिद्धिः जीवास्तित्वं च। ॥ २०४ ॥
SR No.020178
Book TitleDashvaikalika Sutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherShripalnagar Jain S M P Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size94 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy