________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम्
॥ २०३ ॥
www.kobatirth.org
भा०- चोयगसुद्धपयत्ता सिद्धी जइ एवं सुण्णसिद्धि अम्हं पि । तं न भवड़ संतेणं जं सुन्नं सुन्नगेहं व ।। २७ ।। उक्तवच्छुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि, शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह- तन्न भवति यदुक्तं परेण, कुत इत्याह- सता विद्यमानेन पदार्थेन यद् यस्माच्छून्यं शून्यमुच्यते, किंवदित्याहशून्यगृहमिव, तथाहि देवदत्तेन रहितं शून्यगृहमुच्यते, निवृत्तो घटो नष्ट इति, नत्वनयोर्जीवशब्दस्य जीववदव (वि) शिष्टं वाच्यमस्तीति गाथार्थः । प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह
भा०- मिच्छा भवेउ सव्वत्था, जे केई पारलोइया । कत्ता चेवोपभोत्ता य, जइ जीवो न विज्जइ ।। २८ ।। मिथ्या भवेयुः अनृताः स्युः, सर्वेऽर्था ये केचन पारलौकिका- दानादयः, यदि किमित्याह- कर्ता चैव कर्मणः उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते परलोकयायीति गाथार्थः । एतदेवाव्युत्पन्नशिष्यानुग्रहार्थं स्पष्टतरमाह
भा०- पाणिदयातवनियमा बंभं दिक्खा य इंदियनिरोहो। सव्वं निरत्थयमेयं जड़ जीवो न विजई ।। २९ ।। प्राणिदयातपोनियमाः करुणोपवासहिंसाविरत्यादिरूपाः, तथा ब्रह्म ब्रह्मचर्यं दीक्षा च यागलक्षणा इन्द्रियनिरोधः प्रव्रज्याप्रतिपत्तिरूप:, सर्वं निरर्थकं निष्फलमेतत्, यदि जीवो न विद्यते परलोकयायीति गाथार्थः ॥ किंच- 'शिष्टाचरितो मार्गः, शिष्टैरनुगन्तव्य' इति, तन्मार्गख्यापनायाह
भा०- लोइया वेड्या चेव, तहा सामाइया विऊ। निच्चो जीवो पिहो देहा, इइ सव्वे ववत्थिया ॥ ३० ॥
लोके भवा लोके वा विदिता इति लौकिका - इतिहासादिकर्तारः, एवं वैदिकाश्चैव त्रैविद्यवृद्धाः, तथा सामायिकाःत्रिपिटकादिसमयवृत्तयो विद्वांसः पण्डिताः, नित्यो जीवो, नानित्यः, एवं पृथग् देहात् शरीरादित्येवं सर्वे व्यवस्थिताः, नान्यथेति
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीव
निकायम्,
सूत्रम् १ षड्जीवनिकायः भाष्यम् भाष्यम
२७-३०
जीवसिद्धिः जीवास्तित्वं
च।
॥ २०३ ॥