________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsur Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् ॥२०२॥
चतुर्थमध्ययन षड़जीवनिकायम. सूत्रम् पड़जीवनिकाय: भाष्यम् २४-२६ जीवसिद्धिः जीवास्तित्वं
चा
भा०- जीवस्स एस धम्मो जाईहा अस्थि नत्थि वा जीवो। खाणुमणुस्साणुगया जह ईहा देवदत्तस्स ।। २४ ।। जीवस्यैष स्वभाव:- एष धर्मः या ईहा सदर्थपर्यालोचनात्मिका, किंविशिष्टेत्याह-अस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह- स्थाणुमनुष्यानुगता किमयं स्थाणुः किं वा पुरुष इत्येवंरूपा येहा देवदत्तस्य जीवतो धर्म इति गाथार्थः॥ प्रकारान्तरेणैतदेवाह* भा०- सिद्धं जीवस्स अत्थितं, सद्दादेवाणुमीयए। नासओ भुवि भावस्स, सद्दो हवइ केवलो ॥ २५॥
सिद्धं प्रतिष्ठितं जीवस्य उपयोगलक्षणस्यास्तित्वम्, कुत इत्याह- शब्दादेव जीव इत्यस्मादनुमीयते, कथमेतदेवमित्याहनासत इति न असत:- अविद्यमानस्य भुवि पृथिव्यां भावस्य पदार्थस्य शब्दो भवति वाचक इति, खरविषाणादिशब्दैर्व्यभिचारमाशङ्कयाह- केवलः शुद्धः अन्यपदासंसृष्टः, खरादिपदसंसृष्टाश्च विषाणादिशब्दा इति गाथार्थः ।। एतद्विवरणायैवाह । भाष्यकार:
भा०- अत्थिति निव्विगप्पो जीवो नियमाउ सद्दओ सिद्धी । कम्हा? सुद्धपयत्ता घडखरसिंगाणुमाणाओ॥२६ ।। अस्तीति निर्विकल्पो जीवः, निर्विकल्प इति निःसंदिग्धः, नियमात् नियमेनैव, प्रतिपत्त्रपेक्षया शब्दतः सिद्धिः वाचकाद्वाच्यप्रतीतेः, एतदेव प्रश्नद्वारेणाह-कस्मात् कुत एतदेवमिति?, आह-शुद्धपदत्वात् केवलपदत्वान्जीवशब्दस्य, घटखरशृङ्गानुमानाद्, अनुमानशब्दो दृष्टान्तवचनः, घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु- मुख्येनार्थेनार्थवान् जीवशब्दः, शुद्धपदत्वाद्, घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान् न भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाथार्थः॥ पराभिप्रायमाशङ्कय परिहरन्नाह
1॥२०२॥
For Private and Personal Use Only