________________
Shri Mahavir Jain Aradhana Kendra
श्रीदशवैकालिकं
श्रीहारि० वृत्तियुतम्
।। २०१ ।।
www.kobatirth.org
एतदेव स्पष्टयति
भा०- जम्हा चित्ताईया जीवस्स गुणा हवंति पञ्चक्खा गुणपच्चक्खत्तणओ घडुव्व जीवो अओ अत्थि ।। २१ ।। यस्मात् चित्तादयः अनन्तरोक्ताः जीवस्य गुणाः, नाजीवस्य, शरीरादिगुणविधर्मत्वात्, एते च भवन्ति प्रत्यक्षाः, स्वसंवेद्यत्वात्, यतश्चैवं गुणप्रत्यक्षत्वाद्धेतोर्घटवज्जीवः अतोऽस्तीति प्रयोगार्थः, प्रयोगस्तु सन्नात्मा, गुणप्रत्यक्षत्वात्, घटवत्, नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्धः, विरुद्धोऽसति बाधने इतिवचनात्, एतच्चैतन्यं प्रत्यक्षेणैव बाधनमिति गाथार्थः ।। व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारगाथाद्वयेन लक्षणद्वारम्, इदानीमस्तित्वद्वारावसरः, तथा चाह भाष्यकार:
भा०- अत्थित्ति दारमहुणा जीवस्सइ अत्थि विजए नियमा लोआययमयघायत्थमुच्चए तत्थिमो हेऊ ।। २२ ।।
अस्तीति द्वारमधुना - साम्प्रतमवसरप्राप्तम्, तत्रैतदुच्यते- जीवः सन्, पृथिव्यादिविकारदेहमात्ररूपः सन्निति सिद्धसाध्यता न तु ततोऽन्योऽस्तीत्याशङ्कापनोदायाह- अस्त्यन्यश्चैतन्यरूपः, तदपि मातृचैतन्योपादानं भविष्यति परलोकयायी तु न विद्यते इति मोहापोहायाह विद्यते नियमात् नियमेन, तथा चाह- लोकायतमतघातार्थं नास्तिकाभिप्रायनिराकरणार्थमुच्यत एतत्, तस्य चानन्तरोदित एवाभिप्राय इति सफलानि विशेषणानि, तत्र लोकायतमतविघाते कर्तव्ये अयं वक्ष्यमाणलक्षणो हेतुः अन्यथानुपपत्तिरूपो युक्तिमार्ग इति गाथार्थः ॥
भा०- जो चिंतेइ सरीरे नत्थि अहं स एव होइ जीवो त्ति। न हु जीवंमि असंते संसयउप्पायओ अन्नो ।। २३ ॥ यश्चिन्तयति शरीरे अत्र लोकप्रतीते नास्त्यहं स एव चिन्तयिता भवति जीव इति । कथमेतदेवमित्याह-न यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादकः अन्यः प्राणादिः, चैतन्यरूपत्वात्संशयस्येति गाथार्थः । एतदेव भावयति
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थमध्ययनं षड्जीव
निकायम्,
सूत्रम् १ षड्जीवनिकायः भाष्यम २१-२३
जीवसिद्धिः
जीवास्तित्वं
च।
।। २०१ ।।